By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024: कांग्रेसस्य प्रदेशाध्यक्षाया: प्रतिभासिंहाया: मंडीसंसदीयक्षेत्रात् निर्वाचनं स्पर्धयितुं असहमति:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Lok Sabha Election 2024: कांग्रेसस्य प्रदेशाध्यक्षाया: प्रतिभासिंहाया: मंडीसंसदीयक्षेत्रात् निर्वाचनं स्पर्धयितुं असहमति:
राजनैतिकवार्ताहिमाचलवार्ता

Lok Sabha Election 2024: कांग्रेसस्य प्रदेशाध्यक्षाया: प्रतिभासिंहाया: मंडीसंसदीयक्षेत्रात् निर्वाचनं स्पर्धयितुं असहमति:

डॉ मनोज शैल
Last updated: 2024/03/20 at 10:58 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Lok Sabha Election 2024: कांग्रेसस्य प्रदेशाध्यक्षाया: प्रतिभासिंहाया: मंडीसंसदीयक्षेत्रात् निर्वाचनं स्पर्धयितुं असहमति:

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह मण्डी- संसदीयक्षेत्रात् लोकसभानिर्वाचनं कर्तुं न स्वीकृतवती। बुधवासरे प्रातःकाले दिल्लीतः शिमलानगरं प्राप्ता प्रतिभासिंह अवदत् यत् सा निर्वाचनं प्रतिस्पर्धयितुं स्थितिं न प्राप्नोति। केवलं सांसदनिधिवितरणं कृत्वा निर्वाचनं कर्तुं न शक्यते। अस्माकं कार्यकर्तार: असन्तुष्टा: सन्ति। प्रतिभा उक्तवती यत् अद्य कोऽपि सक्रियः कार्यकर्ता न दृश्यते यः दलस्य कृते कार्यं करिष्यति। कार्यकर्तार: दलस्य कृते महत्त्वपूर्णां भूमिकां निर्वहन्ति।

बहुवारं सर्वकारात् तेभ्यः महत्त्वं दातुं प्रार्थितम्। अहं निरन्तरं क्षेत्रे अभवम्। एतासु परिस्थितिषु वयं सफलतां प्राप्नुमः इति न मन्ये। यस्य अभ्यर्थिनः चयनं भवति तस्य वयं साहाय्यं करिष्यामः। उपनिर्वाचनेषु विजयं सुनिश्चितं कर्तुं अस्माकं कर्त्तव्यम् इति उक्तवती। उपनिर्वाचनस्य प्रचारं करिष्यति। सर्वकारस्य उद्धाराय उपनिर्वाचनं आवश्यकं जातम्। कार्यकर्तॄणाम् आक्रोशः दूरं कर्तव्यः भविष्यति।

अपरपक्षे दलस्य सूत्राणां मते मण्डीयुवाकाङ्ग्रेसस्य प्रदेशाध्यक्षस्य नेगी निगमभण्डारी इत्यस्य नाम अपि सम्भाव्यप्रत्याशीरूपेण चर्चायां समाविष्टम् अस्ति। किन्नौरमण्डलस्य निवासी भण्डरी चिरकालात् अस्मिन् संसदीयक्षेत्रे सक्रियः अस्ति। विधानसभानिर्वाचनकाले सः किन्नौरतः दलस्य नामपत्रस्य स्पर्धायामासीत् । परन्तु अद्यापि कौलसिंहठाकुरस्य मण्डीतः अभ्यर्थी करणस्य सम्भावना वर्तते।

वदामः यत् लोकसभानिर्वाचनस्य अभ्यर्थीनां निर्णयार्थं काङ्ग्रेस-परीक्षणसमित्या मंगलवासरे नवीदिल्लीनगरे विचारविमर्शसत्रं कृतम्। समिते: अध्यक्ष: एवं पूर्वरेलराज्यमंत्री भक्तचरणदासस्य अध्यक्षतायां मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, प्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह, उपमुख्यमंत्री मुकेश अग्निहोत्री च गोष्ठ्यां उपस्थिता अभवन्। अस्मिन् सप्ताहे केन्द्रीयनिर्वाचनसमित्याः सभायां राज्यस्य चतुर्णां आसनानां निर्णयः कर्तुं शक्यते। षट् विधानसभाक्षेत्रेषु उपनिर्वाचनविषये कतिपयेभ्यः दिनेभ्यः अनन्तरं विचारविमर्शं कर्तुं सहमतिः अभवत्।

दलस्य सूत्रेषु उक्तं यत् शिमलासनतः दयालप्यारी, अमितनन्दा, कौशलमुङ्गटा, यशपाल तनाईक: इत्येतेषां नाम्ना एकं समूहं निर्मितम् अस्ति। एतादृशी परिस्थितौ काङ्ग्रेसः अपि सिरमौरस्य मतविभाजनार्थं दयालप्यारी इत्यस्य प्रत्याशीरूपेण निर्णयं कर्तुं शक्नोति इति अनुमानं वर्तते। काङ्गड़ायां आशाकुमारी, करण पठानिया, संजयचौहानः, मेजर जनरल सेवानिवृत्त डीवीएस राणा च सम्भाव्य अभ्यर्थीरूपेण दृश्यन्ते। हमीरपुरतः प्रत्याशीनिर्णयस्य विषये अद्यापि काङ्ग्रेसः दुविधायां अटति। इतः रामलालठाकुरस्य सतपाल रायजादायाश्च नाम उद्भूताः। परन्तु मुख्यमन्त्री स्वस्य गृहसंसदीयनिर्वाचनक्षेत्रात् कस्य निर्वाचनं कर्तुं निर्णयं करिष्यति इति दृष्टिः अस्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Congress, HIM SASNSKRIT VARTA, Himachal Congress, himsanskritnews him sanskritam, HP Congress, loksabha, LokSabha Election, कांग्रेस, प्रतिभा सिंह, लोकसभा, लोकसभा चुनाव, लोकसभा चुनाव 2024, लोकसभा निर्वाचन, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल कांग्रेस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article संघ-लोकसेवा-आयोगेन सिविल-सेवा-प्रारम्भिकपरीक्षा २०२४ इति स्थगिता
Next Article मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – आपदा- प्रभावितेभ्य: आर्थिकसहायता न प्रदत्ता, विद्रोहिणां कृते कोटिरूप्यकाणां व्ययं करोति भाजपा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?