By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः
हिमाचलवार्ता

CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः

डॉ मनोज शैल
Last updated: 2024/03/11 at 4:34 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

CM Sukhu : प्रत्येकं आह्वानं दृढनिश्चयेन सम्मुखीकृत्य आत्मनिर्भरस्य हिमाचलस्य दृष्टिः सफलीकरिष्यामः

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोलनस्य पुरातनबसस्थानके विशालं जनसभां सम्बोधयन् अवदत् यत् राज्यसर्वकारः हिमाचलस्य उज्ज्वलभविष्यं सुनिश्चेतुं विविधाः योजनाः नीतयः च निर्माय कार्यान्वयनं करोति। सर्वकारः भ्रष्टाचारस्य द्वाराणि पिधाय राज्यस्य संसाधनानाम् उपयोगं जनकल्याणाय राज्यस्य विकासाय च कुर्वन् अस्ति, भाजपा अनैतिकपद्धतिं स्वीकृत्य लोकतान्त्रिकप्रक्रियायाः दुर्बलीकरणाय प्रयतते। सः आरोपितवान् यत् केचन जनाः सार्वजनिकधनस्य शक्तिं प्रयुज्य लोकतान्त्रिकरूपेण निर्वाचितं सर्वकारं आहतं कर्तुं प्रयतन्ते। सः अवदत् यत् राज्यसर्वकारः राज्यस्य आत्मनिर्भरीकरणस्य उद्देश्येन कार्यं कुर्वन् अस्ति, समीचीननीतिः च अनुसरणं कुर्वन् अस्ति।

मुख्यमन्त्री अवदत् यत् आर्थिकसम्पदाया: अभावेऽपि राज्यसर्वकारः प्राकृतिकविपदायाः दृढतया सम्मुखीकरणं कृतम्। राज्यसर्वकारेण केन्द्रात् विशेषसहायता न प्राप्ता, तथापि वयं प्राथमिकता: निर्धारितवन्तः, प्रत्येकं प्रभावितं व्यक्तिं च सर्वसम्भवं साहाय्यं च प्रदत्तवन्तः। राज्यसर्वकारः सामान्यजनं केन्द्रे स्थापयित्वा स्वयोजनानां कार्यक्रमानां च स्वरूपं निर्णाययति। नियमाः प्रक्रियाः च सरलीकृत्य सर्वकारीयसेवाः सामान्यजनस्य द्वारे आनेतुं सर्वकारः प्रयतते। अस्य दृष्ट्या राजस्वविभागे विशेषराजस्वलोक-न्यायालयानां आरम्भः कृतः। तस्य उत्साहवर्धकाः परिणामाः उद्भूताः सन्ति।

राज्यसर्वकारस्य विभिन्नयोजनानां चर्चां कुर्वन् सः अवदत् यत् २०२४-२५ वित्तवर्षस्य बजटे मुख्यमन्त्री सुखशिक्षायोजना आनीता अस्ति। अस्याः योजनायाः अन्तर्गतं राज्यस्य एतादृशानां सर्वेषां विधवानां २७ वर्षपर्यन्तं बालकानां शिक्षायाः व्ययः राज्यसर्वकारः वहति, येषां वार्षिक-आयः सर्वेभ्यः स्रोतेभ्यः एकलक्षात् न्यूनं भवति। मुख्यमन्त्री सुख-आश्रययोजना, आपदा- आश्रयसंकुलम्, आङ्ग्लमाध्यमेन शिक्षा, ग्रामीण अर्थव्यवस्था- सुदृढीकरणं, ओपीएस, कर्मचारीकल्याणम् इत्यादीनां विविधयोजनानां विषये विस्तृतां सूचनां अददत्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् वयं राजनैतिक-आह्वानेभ्य: न बिभेमः। वयं प्रत्येकं आव्हानं दृढनिश्चयेन सम्मुखी करिष्यामः, २०३२ वर्षपर्यन्तं स्वावलम्बी हिमाचलस्य दृष्टिः सफलं करिष्यामः। संसाधनानाम् संयोजनाय सर्वकारः नूतनान् उपक्रमान् कुर्वन् अस्ति, तेषाम् उपयोगः राज्यस्य जनानां विकासाय कल्याणाय च सुनिश्चितं भविष्यति। मुख्यमन्त्री सोलननगरे यानस्थगनस्थलस्य (पार्किङ्ग) अंतर- क्रीडाङ्गणस्य च निर्माणाय १०-१० कोटिरूप्यकाणि प्रदातुं घोषितवान्।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal government, Himachal news, himachal update, Himsanskritnews, HP NEWS, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article भारतेन नवदिल्ल्यां ईएफटीए संघेन आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि
Next Article CM Sukhu : मुख्यमन्त्री सोलन-विधानसभाक्षेत्रे १८६ कोटिरूप्यकाणां परियोजनानां उद्घाटनानि शिलान्यासान् च कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?