By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ताराजनैतिकवार्ता

HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/02/28 at 10:24 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशे काङ्ग्रेससर्वकारस्य बहुमतं भवत्यपि राज्यसभाया: आसनं भाजपापक्षे गमनेन राज्ये राजनैतिकक्षोभं तीव्रं जातम्। लोकनिर्माणमन्त्री विक्रमादित्यसिंहः मन्त्रिमण्डलात् त्यागपत्रं दत्तवान्। १५ भाजपा विधायकाः सदनेन निलम्बिताः।

विक्रमादित्यसिंहः सर्वकारीययानं त्यक्तवान्

मन्त्रिमण्डलात् त्यागपत्रं दत्त्वा विक्रमादित्यसिंहः सर्वकारीयवाहनं त्यक्तवान् अस्ति। सः विधानसभात: निजयानेन स्वनिवासं प्रति प्रस्थितवान्।

त्याग-पत्रस्य पश्चात् भाजपा-दले गमनस्य अनुमानानाम् विषये काङ्ग्रेस-विधायकः विक्रमादित्यसिंहः अवदत् यत् अद्यापि तत्सदृशं किमपि नास्ति। यत्किमपि अहं वदामि तत् सर्वदा तथ्यप्रमाणमाश्रित्य वदामि। तत्सदृशं किमपि नास्ति, सर्वं लोकवाद: एव। अहं राजनैतिकं व्यभिचारं विना यत्किमपि वदामि सत्यं वदामि।  यत्किमपि वक्तव्यं तत् स्पष्टतया वक्ष्यामि।

विक्रमादित्यसिंहस्य रोषं निवारयिष्याम: – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति। सः अवदत् यत् विक्रमादित्यसिंहः तस्य अनुजः अस्ति। तस्य रोष:  दूरीकृतः भविष्यति। मुख्यमन्त्री गुरुवासरे मन्त्रिमण्डलस्य समागममपि आहूतवान्। पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विक्रमादित्यस्य त्यागपत्रसम्बद्धानां प्रश्नानाम् उत्तरं दत्तवान्। सः विक्रमादित्यसिंहेन सह वार्तालापं कृतवान् इति अवदत् । एतादृशं किमपि नास्ति। सः मम अनुजः अस्ति। अवश्यं यदि कश्चन रोष: भवति तर्हि सः त्यागपत्रं ददाति। तस्य त्यागपत्रस्य स्वीकारस्य न्याय्यता नास्ति । अद्य वयं तेन सह आयव्ययके सत्रे भाषितवन्तः परन्तु तदन्तरे विधानसभाध्यक्ष: सदनं आगतः। तस्य यः कोऽपि आक्रोशः अस्ति सः अपसारितः भविष्यति।

त्याग-पत्रस्य अस्वीकरणे किमुक्तवान् विक्रमादित्यसिंहः

  विक्रमादित्यसिंह: मन्त्रिपदात् त्यागपत्रं दत्तवान् परन्तु यदा  तस्य त्यागपत्रं न स्वीकृतम् तदा काङ्ग्रेसनेता विक्रमादित्यसिंहः अवदत् यत् एतद् मुख्यमन्त्रिणः विशेषाधिकारः वर्तते। अहं निपीडनं न गृह्णामि किन्तु निपीडनं ददामि। मुख्यमन्त्रिण: परिवर्तनं कर्तव्यं वा न वा इति प्रश्नस्य उत्तरे सः अवदत् यत् एतत् तस्य अधिकारक्षेत्रं नास्ति, दलस्य शीर्षनेतृत्वस्य निर्णयः भविष्यति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Himachal news, himachal update, HPCM, hpgovt, PWD Department, Vikramaditya Singh, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, लोक निर्माण मंत्री, विक्रमादित्य सिंह, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article व्याकरणम् -व्याक्रियन्ते असाधुशब्देभ्य: विविच्य साधुशब्दा अनेन
Next Article भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?