व्याक्रियन्ते असाधुशब्देभ्य: विविच्य साधुशब्दा अनेन इत्यर्थे वि तथा आङ् उपसर्गपूर्वात् कृधातो: ल्युट् (अन) प्रत्यये कृते व्याकरणशब्द: सिध्यति।
पाणिनि: व्याकरणं सूत्ररूपेण रचितवान्। तेन व्याकरणेन साधुशब्दानां ज्ञानं भवति। शास्त्रेस्मिन् सूत्राणि तथा च उदाहरणप्रत्युदाहरणाध्याहारस्वरूपं तेषां व्याख्यानम् एतस्य सर्वस्य समावेश: भवति। तर्हि व्याकरणपदेन सूत्राणि उत साधुशब्दा: अथवा उभयमपि निर्दिष्टं भवति इत्यत्र सन्देह:।
विषयेस्मिन् त्रय: पक्षा:–
अ) सूत्राणि नाम व्याकरणम्।
आ) साधुशब्दा: व्याकरणम्।
इ) साधुशब्दा: (लक्ष्यं) सूत्राणि (लक्षणं) इति उभयविधं व्याकरणम्। एतेषु त्रिष्वपि ये गुणदोषा: तेऽत्र विविच्यन्ते।–
अ) ‘सूत्राणि एव व्याकरणम्’ इत्यस्मिन् पक्षे दोषद्वयम् उपतिष्ठते–
१) सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्न: — सूत्रविषये ‘व्याकरणस्य सूत्रम्’ एवं षष्ठीविभक्त्या निर्देशो भवति। षष्ठ्या: अर्थ: सम्बन्धसामान्यम्। तस्य कृते ययो: सम्बन्ध: अस्ति तौ द्वौ भिन्नौ पदार्थौ आवश्यकौ। यथा ‘राज्ञ: पुरुष:’ इत्युक्ते राजा तथा च पुरुष: एतौ द्वौ भिन्नौ स्त: इति भानं भवति। तयो: मध्ये य: स्वामिसेवकभाव: स: षष्ठ्यर्थ:। सूत्रम् एव व्याकरणम् इति वदाम: चेत् उभयो: अभेद: भवति। अत: पुन: अभिन्नस्य विषये ‘व्याकरणस्य सूत्रम्’ एवं षष्ठीनिर्देश: नोपपद्यते। तत्तु ‘मनुष्यस्य पुरुष:’ इति कथनवत् हास्यास्पदं भवेत्।
पतञ्जलिराह–नैष दोष:। अत्रत्य: षष्ठ्यर्थ: व्यपदेशिवद्भावेन तिष्ठतीति अङ्गीक्रियताम्। यथा मस्तकमेव राहु: तथापि ‘राहो: मस्तकम्’ इत्युच्यते षष्ठ्यन्तेन।
२) शब्दाप्रतिपत्ति: — यदि सूत्राण्येव व्याकरणम् इति वदामश्चेत् शब्दानां प्रतिपत्ति: ज्ञानं तेन न भवेत्। कुत:? ‘वृद्धिरादैच्’ इत्यादिषु सूत्रेषु केवलं ‘वृद्धि:, आत् ,ऐच्’ एवं विग्रहं कृत्वा अर्थज्ञानं न भवति। तदर्थम् उदाहरणानि, प्रत्युदाहरणानि, अध्याहारश्च एतद्रूपं व्याख्यानमेव आवश्यकम्। आकार: दीर्घौ च ऐकार-औकारौ वृद्धिसंज्ञौ इति सूत्रार्थ:। तस्य स्पष्टीकरणार्थं शालीय:, ऐतिकायन: औपगव: इत्यादीनि उदाहरणानि प्रस्तूयन्ते।
भाष्यकार: वदति न अत्रापि दोष:। सूत्रत: एव शब्दान् प्रतिपद्यन्ते। वृद्धि: आत् ऐच् इति पदच्छेदे कृते एतेभ्य: चर्चापदेभ्य: एव बुद्धिमन्त: आकार: दीर्घौ च ऐकार-औकारौ वृद्धिसंज्ञा: इति अवगच्छन्ति। ये मन्दबुद्धय: तेषां कृते उदाहरण-प्रत्युदाहरण-अध्याहाररूपं व्याख्यानम् आवश्यकं भवति।
आ) एवं तर्हि ‘शब्दा: व्याकरणम्’ एवं भवतु। तथापि अत्रापि दोषद्वयम्–
१) शब्दे ल्युडर्थ: –व्याकरणशब्दस्य घटनायां य: ल्युट् (अन) प्रत्यय: तस्यार्थ: करणम् इति। अत: येन साधनभूतेन शास्त्रेण शब्दा: प्रकृति-प्रत्ययविभागं दर्शयित्वा असाधुशब्देभ्य: व्याक्रियन्ते विविच्यन्ते (पृथक् दर्श्यन्ते) तद् व्याकरणम् इति अर्थ: प्राप्यते। शब्द: एतस्य शास्त्रस्य न साधनं यत: तत् व्याकरणस्य कर्म अस्ति। अत: ‘शब्द: एव व्याकरणम्’ इत्यभ्युपगमे कृते व्याकरणशब्दे य: ल्युट् तस्यार्थ: न सङ्गत: भवति।
एतं दोषं निराकुर्वन् पतञ्जलिराह– ल्युट् प्रत्यय: करणार्थ: एव इति न नियम:। ‘कृतल्युटो बहुलम्’ इत्यत्र बहुलग्रहणात् अन्यान्यपि कारकाणि ल्युट: अर्था: भवितुं शक्यन्ते। यथा प्रस्कद्यते यस्मात् तत् प्रस्कन्दनम् प्रपत्यये यस्मात् तत् प्रपतनम् एतयो: प्रस्कन्दनप्रपतनशब्दयो: य: ल्युट् तस्यार्थ: अपादनम्।
अत: शब्दरूपं कर्म अपि तस्यार्थ: भवेत् इत्यत्र न प्रत्यवाय:।
शब्दै: अन्ये शब्दा: व्याक्रियन्ते विविच्यन्ते इत्यभ्युगमे करणार्थ: अपि न शब्दविषये अस्थाने भवति। यथा गौ: इत्युच्चारिते नाश्व: न गर्दभ: एवं अश्वगर्दभादय: पदार्था: निवर्तन्ते गौ: इत्यर्थ: सन्देहरहित: प्रतीयते।
२) भवे च तद्धित: –व्याकरणशब्दात् ‘तत्र भव:’ (तस्मिन् भवति स:) इत्यनेन सूत्रेण अण् इति तद्धितप्रत्ययं कृत्वा वैयाकरणशब्द: सिध्यति। य: सूत्राणि वेत्ति अधीते वा स: वैयाकरण: इति उच्यते। शब्दा एव व्याकरणम् इति अभ्युपगमे कृते एष: तत्र भव: इति सूत्रेण कृत: तद्धितप्रत्यय: न सङ्गच्छते। य: साधुशब्दान् जानाति स: वैयाकरण: इति न वदन्ति।
३) प्रोक्तादयश्च तद्धिता: –‘तेन प्रोक्तम्’ इत्यनेन सूत्रेण ‘छ’ प्रत्ययं कृत्वा पाणिनिना प्रोक्तं पाणिनीयम् , आपिशलिना प्रोक्तम् आपिशलम् , काशकृत्स्निना प्रोक्तं काशकृत्स्नम् इत्यादय: शब्दा: सिध्यन्ति। पाणिनिना सूत्राणि प्रोक्तानि न तु शब्दा:। अत: ‘शब्दा: व्याकरणम्’ इत्यभ्युपगमे कृते ‘तेन प्रोक्तम्’ इत्यर्थ: तद्धितप्रत्यय: न सङ्गच्छते।
४) ‘तत्र भव:’ इत्यनेन अण् इति तद्धितप्रत्यय: विधीयते पुनश्च ‘तेन प्रोक्तम्’ इत्यनेनापि छ इति तद्धितप्रत्यय: एव। वार्त्तिककार: तद्धितप्रत्यय: न सङ्गच्छते इति एव उभयत्र दर्शयितुम् इच्छति। अत: तयोरेकेनैव कार्यम् असेत्स्यत् तर्हि कुत: वृथा अभिहितस्य अभिधानम्?
एतस्य समाधानमेवम्– तत्र भव: इत्यनेन कृतस्य अण् इति प्रत्ययस्य अर्थ: न सङ्गच्छते इति दर्शयन् आचार्य: ‘भवे च तद्धिते’ एवं वार्त्तिकं कृतवान्। पुनश्च तेन अग्रे ‘तेन प्रोक्तम्’ इत्यनेन क्रियमाण: छ प्रत्यय: अपि न चरितार्थ: भवतीति लक्षितम्। एकवारं कृतं सूत्रं आचार्या: न निवर्तयन्ते अत: अभिहिताभिधानरूपं दोषं स्वीकृत्यापि द्वे वर्त्तिके आचार्येण रचिते।
इ) सूत्रं वा शब्द: वेति व्याकरणपदस्य अर्थ: इति स्वीकरणे दोषा: सन्ति। इदानीं तृतीयं पक्षम् उपस्थापयन् आचार्य: वदति– लक्ष्यलक्षणे व्याकरणम् इति। लक्ष्यं शब्द: लक्षणं सूत्रम्। शब्द: तथा तत्प्रतिपादकं सूत्रम् एतयो: समुदाय: व्याकरणम् इति फलितार्थ:।
अस्मिन्नपि अभ्युपगमे दोष: अस्त्येव। सूत्रशब्दयो: समुदायस्य नाम व्याकरणम्। अत: केवलं सूत्रं वा केवलं शब्द: वा व्याकरणम् इति नाम्ना निर्देशं न अर्हति यत: समुदाये प्रवृत्त: शब्द: तस्य अवयवनिर्देशाय नोपयुज्यते। तथापि य: केवलं सूत्राणि अधीते वेत्ति वा स: वैयाकरण: इत्युच्यते एतदसङ्गतम्।
पतञ्जलि: वदति नैष: दोष:। समुदाये प्रवर्तमान: शब्द: अवयवेपि प्रवर्तते यथा– पञ्चाला: इति जनपदस्य नाम तस्य पूर्वोत्तरावयावानां समूहस्य दर्शकम्। तथापि पूर्वे पञ्चाला: उत्तरे पञ्चाला: एवं पञ्चालजनपदस्य अवयवेपि स: शब्द: प्रवर्तते। तैलं भुक्तम्, घृतं भुक्तम् इत्यादय: शब्दा: औषधमिश्रिततैलार्थं घृतार्थं चोपयुज्यन्ते। अत्र अवयववाचकशब्द: समुदायं दर्शयति। पुनश्च शुक्ल: नील: कपोत: कृष्ण: एते वर्णस्य आधिक्यं दर्शयन्त: अवयववाचका: शब्दा:। ते सम्पूर्णवस्तुन: निर्देशार्थम् उपयुज्यन्ते शुक्ल: मेघ: इत्यादि।
एवं ‘लक्ष्यलक्षणे व्याकरणम्’ इति स्वीकृते ‘तत्र भव:’, ‘तेन प्रोक्तम्’ इत्यादिभि: सूत्रै: उक्ता: तद्धितप्रत्यया: अपि व्याकरणविषये चरितार्था: भवन्ति इत्यत: ‘लक्ष्यलक्षणे व्याकरणम्’ इत्येव सर्वसमावेशक: अभ्युपगम:।
श्री.अभिजित् तोडकर: सुभाषितशिक्षणप्रमुख: संस्कृतभारती पश्चिममहाराष्ट्रप्रान्त:।
व्याकरणम् -व्याक्रियन्ते असाधुशब्देभ्य: विविच्य साधुशब्दा अनेन
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
