By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः- पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणविषये सर्वकारः जनै: सह अस्ति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः- पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणविषये सर्वकारः जनै: सह अस्ति
हिमाचलवार्ताप्रादेशिकवार्ता

मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः- पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणविषये सर्वकारः जनै: सह अस्ति

डॉ मनोज शैल
Last updated: 2024/01/21 at 2:25 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः- पर्यावरणसंवेदनशीलक्षेत्रस्य निर्माणविषये सर्वकारः जनै: सह अस्ति

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे काङ्गड़ामण्डलस्य परागपुरस्य नक्कीग्रामे ‘सर्वकार: ग्रामस्य द्वारे’ कार्यक्रमे उक्तवान् यत् पौंगजलबन्धसमीपस्थं क्षेत्रं पर्यावरणसंवेदनशीलक्षेत्रं कर्तुं राज्यसर्वकारः जनै: सह तिष्ठति। सः अवदत् यत् पोङ्गजलबन्धक्षेत्रे पर्यटनक्रियाकलापानाम् प्रचारार्थं प्रयत्नाः क्रियन्ते। आगामिसमये शतकोटिरूप्यकाणां योजनाः आरभ्यन्ते। मुख्यमन्त्री उक्तवान् यत् अद्य प्रत्येकं हिमाचलीयाः एकलक्षरूप्यकाधिकं ऋणं वर्तते। क्षीणतां गच्छन्ती अर्थव्यवस्था पूर्वभाजपासर्वकारात् उत्तराधिकाररूपेण प्राप्ता, यस्य राज्यसर्वकारः पुनः मार्गे आनेतुं बहु प्रयतते। एकस्मिन् वर्षे वयं राज्यस्य अर्थव्यवस्थां २० प्रतिशतं यावत् पुनः मार्गं प्राप्तुं समर्थाः अभवम्। राज्यसर्वकारेण दुग्धस्य क्रयमूल्यं एकवारं ६ रुप्यकाणि वर्धितम् अस्ति, भविष्ये अपि तस्य वृद्धिः भविष्यति। काङ्गड़ामण्डलस्य ढगवारे २५० कोटिरूप्यकाणां दुग्धप्रसंस्करणसंस्थानं स्थाप्यते। एतावता १२०० युवानः ई-टैक्सी-अनुज्ञापत्रार्थम् आवेदनं कृतवन्तः। सुक्खुः उक्तवान् यत् पूर्वभाजपासर्वकारेण शिक्षाक्षेत्रस्य उपेक्षा कृता, यस्य कारणेन शिक्षायाः स्तरः न्यूनः अभवत्। अद्य पञ्चमश्रेण्याः छात्रः द्वितीयवर्गस्य पुस्तकमपि पठितुं न शक्नोति। अत एव शिक्षासुधारार्थं सर्वकारः दृढ़पदानि गृह्णाति। अग्रिमशैक्षणिकसत्रात् सर्वकारीयविद्यालयेषु प्रथमकक्षातः आङ्ग्लमाध्यमेन शिक्षा पाठिता भविष्यति तथा च समूहनिर्माणं कृत्वा संसाधनानाम् उत्तमः उपयोगः भविष्यति। विधवाबालानां शिक्षायाः व्ययः अपि राज्यसर्वकारः वहति, अस्य योजना च बजटे अन्तिमरूपेण निर्धारिता भविष्यति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, सरकार गांव के द्वार, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश, हिमाचल प्रदेश सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्
Next Article श्रीराममन्दिर-प्रतिष्ठा-अयोध्या – हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?