यूनिसेफ दिवस:
डॉ नरेन्द्रराणा सिरमौर: ।
संयुक्तराष्ट्रसङ्घस्य बालकोष: अथवा यूनिसेफ इत्यस्य स्थापनायाः प्रारम्भिकम् उद्देश्यं द्वितीयविश्वयुद्धे नष्टानां राष्ट्राणां बालकानां कृते भोजनस्य स्वास्थ्यसेवाया: प्रदानञ्चासीत् । १९४६ तमे वर्षे दिसम्बरमासस्य ११ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः स्थापना अभवत् । १९५३ तमे वर्षे यूनिसेफ संयुक्तराष्ट्रसङ्घस्य स्थायीसदस्यः अभवत् । तस्मिन् समये अस्य नाम संयुक्तराष्ट्रसङ्घस्य अन्तार्राष्ट्रीयबालकोषस्य स्थाने संयुक्तराष्ट्रसङ्घस्य बालकोषः इति कृतम् । अस्य मुख्यालयः रामभगतेन निर्मितः न्यूयोर्कनगरे अस्ति । सम्प्रति अस्य प्रमुख: “एन वेनेमैन” अस्ति । उत्कृष्टकार्यस्य कृते १९६५ तमे वर्षे यूनिसेफ्-संस्थया नोबेल्-पुरस्कारः प्राप्तः । १९८९ तमे वर्षे इन्दिरागान्धीशान्तिपुरस्कारेण अपि इयं संस्था पुरस्कृतः । अस्याः कार्यालय: १२० तः अधिकेषु नगरेषु सन्ति, १९० तः अधिकेषु स्थानेषु कर्मचारिण: च सन्ति । सम्प्रति यूनिसेफ्-संस्था धनसङ्ग्रहार्थं विश्वस्तरीयक्रीडकानां, दलानाञ्च साहाय्यं याचते । ३६ सदस्यानां कार्यकारीसमूहः यूनिसेफसंस्थाया: कार्यस्य निरीक्षणं करोति । अयं नीतयः निर्माति तथा च वित्तीयप्रशासनिकयोजनाभिः सम्बद्धानां कार्यक्रमानाम् अनुमोदनं करोति । सम्प्रति यूनिसेफ मुख्यतया पञ्च प्राथमिकतासु केन्द्रितः अस्ति । बालविकासः, मूलभूतशिक्षा, लैङ्गिकसमानता (बालिकानां शिक्षा सहितम्), बालकानां हिंसा, शोषण, बालश्रमः, एच.आई.वी/एड्स तथा बालकानां रक्षणं, बालानाम् अधिकाराणां कानूनीसङ्घर्षाय च कार्यं करोति ।
यूनिसेफ दिवस: (Unicef Day)
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
