‘सीसीआरएएस’ संस्थायाः ‘स्पार्क’ योजनया युवाशोधार्थिभ्यः प्राप्स्यतेवैज्ञानिकं मार्गदर्शनम्- प्रो. बिहारीलालशर्मा
आयुर्वेदस्य विद्यार्थिभ्यः शोधाय नवाचाराय च प्राप्स्यते पञ्चाशत्सहस्ररूप्यकाणां (₹५०,०००) प्रोत्साहनराशिः।
हिमसंस्कृतवार्ता:- वाराणसी।
आयुर्वेदस्य समृद्धां ज्ञानपरम्पराम् आधुनिक- वैज्ञानिक- अनुसन्धानेन सह संयोजयितुं, विद्यार्थिषु मौलिकचिन्तनं नवाचारं च प्रोत्साहयितुं दिशि सम्पूर्णानन्द- संस्कृत- विश्वविद्यालयेन, वाराणस्या महत्त्वपूर्णः उपक्रमः कृतः अस्ति।
कुलपतेः प्रो. बिहारीलालशर्मा-महोदयस्य प्रेरणया मार्गदर्शने च आयुषमन्त्रालयस्य, भारतसर्वकारस्य अधीनस्थस्य ‘केन्द्रीय- आयुर्वेदीय- विज्ञान- अनुसन्धान- परिषदः’ ‘स्पार्क’ योजनां प्रति विद्यार्थिनः जागरूकान् कर्तुं कुलसचिवेन राकेशकुमारेण २८ नवम्बरदिनाङ्के कार्यालयज्ञापः निर्गमितः अस्ति। अस्याः योजनायाः अन्तर्गततया ‘बीएएमएस’ पाठ्यक्रमस्य प्रथमवर्षतः चतुर्थवर्षपर्यन्तं विद्यार्थिभ्यः मौलिक- शोध- परियोजनायाः पूर्णतायां पञ्चाशत्सहस्रं (₹५०,०००) रूप्यकाणां प्रोत्साहनराशिः प्रदास्यते। सहैव शोधप्रस्तावं सज्जीकर्तुं तं च क्रियान्वितं कर्तुं ‘सीसीआरएएस’ संस्थायाः विशेषज्ञैः प्राविधिकं मार्गदर्शनम् अपि उपलब्धं भवितुं शक्ष्यति।
‘स्पार्क-५.०’ (२०२६-२७) कृते आवेदनप्रक्रिया १५ अक्तूबर, २०२६ दिनाङ्कात् आरब्धा अस्ति। इच्छुकाः विद्यार्थिनः https://spark.ccras.org.in/ इत्यस्य माध्यमेन अन्तर्जालीयम् आवेदनं कर्तुं शक्नुवन्ति।
कुलपतिः प्रो. बिहारीलालशर्मा अवदत् यत् आयुर्वेदस्य प्राचीनां ज्ञानपरम्पराम् आधुनिक- वैज्ञानिक- अनुसन्धानेन सह संयोजनं समयस्य आवश्यकता वर्तते। विद्यार्थिषु शोधस्य, मौलिकतायाः नवाचारस्य च भावनायाः विकासेन आयुर्वेदाय नूतनं वैज्ञानिकं परिचयं वैश्विकप्रतिष्ठा च प्राप्स्यते।
