आतङ्कवादं त्यक्त्वा समस्यायाः समाधानाय वार्तायाः मार्गम् अवलम्बताम् पाकिस्तानम्; कश्मीरः भारतस्य अङ्गम् आसीत्, अस्ति, सर्वदा च भविष्यति : डॉ. फारूख अब्दुल्ला
श्रीनगरम्। जम्मू-कश्मीरस्य पूर्व-मुख्यमन्त्री ‘नेशनल कॉन्फ्रेंस’ दलस्य अध्यक्षः च डॉ. फारूख अब्दुल्ला गुरुवासरे केन्द्रशासित-प्रदेशे गत-दिनद्वये घटितयोः द्वयोः आतङ्कवादि-घटनयोः पृष्ठभूमौ पाकिस्तानेन सह वार्तायाः प्रबलं समर्थनं कृतवान्। संवाददातृभिः सह वार्तालापं कुर्वन् डॉ. अब्दुल्ला आतङ्कवादिभ्यः कठोरं सन्देशं दत्तवान् यत् तैः इदं स्मर्तव्यं यत् आतङ्कवादः कदापि सफलः न भविष्यति।सः पाकिस्तानं प्रति स्पष्टरूपेण उक्तवान् यत् सः आतङ्कवादं समापयतु तथा च समस्यायाः समाधानम् अन्वेष्टुं संवादस्य मार्गम् अवलम्बताम्। अन्ताराष्ट्रिय-परिस्थितीनाम् उदाहरणं ददत् सः अवदत् यत् भवद्भिः ईरान-अमरीका-देशयोः स्थितिः दृष्टा अस्ति, यूक्रेन-देशः कथं ध्वस्तः अभवत् इदमपि दृष्टम्, अधुना च समाधानं निष्कासयितुं त्रयः राष्ट्रपतयः उपवेशनानि कुर्वन्ति। समस्यानां समाधानं युद्धेन न, अपितु केवलं वार्तालापेन एव कर्तुं शक्यते।तेन चिन्तां प्रकटयन् कथितं यत् आतङ्कवादः अद्यापि जीवितः अस्ति, कोऽपि न जानाति यत् अग्रिमम् आक्रमणं कुत्र भविष्यति इति। तथापि, सः दृढैः शब्दैः पुनः उक्तवान् यत् ते यत्किमपि कर्तुं प्रयतन्तां नाम, कश्मीरः भारतस्य अभिन्नम् अङ्गम् आसीत्, अस्ति, सर्वदा च भविष्यति।
आतङ्कवादं त्यक्त्वा समस्यायाः समाधानाय वार्तायाः मार्गम् अवलम्बताम् पाकिस्तानम्; कश्मीरः भारतस्य अङ्गम् आसीत्, अस्ति, सर्वदा च भविष्यति : डॉ. फारूख अब्दुल्ला
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
