By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बिहारवार्ता-प्रतिबन्धिताभिः औषधिभिः सह एकः अभियुक्तः अधिग्रहीतः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > बिहारवार्ता-प्रतिबन्धिताभिः औषधिभिः सह एकः अभियुक्तः अधिग्रहीतः
बिहारवार्ताः

बिहारवार्ता-प्रतिबन्धिताभिः औषधिभिः सह एकः अभियुक्तः अधिग्रहीतः

डॉ.अमनदीप शर्मा
Last updated: 2026/10/22 at 8:33 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

बिहारवार्ता- प्रतिबन्धिताभिः औषधिभिः सह एकः अभियुक्तः अधिग्रहीतः
२३८ काचपात्राणि कोडीन-कफसिरपः, ५०० निट्राजेपाम्-गुलिकाः च प्राप्ताः, पुलिसदलाय १०,००० रूप्यकाणां पुरस्कारः प्रदत्तः
हिमसंस्कृतवार्ता : वृजेश कुमार पाण्डेय
सिद्धार्थनगरम्, २१ अक्टूबर २०२६। जनपदस्य बाँसी-थानाक्षेत्रे पुलिसदलेन अवैधस्वापकौषधीनां प्रतिबन्धिताभिः औषधिभिः च सह एकः अभियुक्तः अधिग्रहीतः। तस्य आधिपत्यात् २३८ शीशी कोडीन-कफसिरपः, ५०० निट्राजेपाम्-गुलिकाः, एकः चलदूरभाषयन्त्रः च प्राप्तः।
प्राप्तविवरणानुसारं सिद्धार्थनगरस्य वरिष्ठपुलिसाधीक्षकस्य डॉ. अभिषेकमहाजनस्य आदेशानुसारम्, अपरपुलिसाधीक्षकस्य प्रशान्तकुमारप्रसादस्य निर्देशनें, बाँसीक्षेत्राधिकारी शुबेंदुसिंहस्य पर्यवेक्षणे तथा बाँसी-थानाप्रभारी महेन्द्रप्रतापचतुर्वेदिनः नेतृत्वे पुलिसदलेन एषा कार्यप्रक्रिया कृता।
२०२६ तमस्य वर्षस्य अक्टूबरमासस्य २० दिनाङ्के उपनिरीक्षकः रामप्रतापसिंहः पुलिसदलेन सह दुर्गाप्रतिमाविसर्जनस्य सुरक्षाव्यवस्थायां नियुक्तः आसीत्। तस्मिन् समये तेलौराबाजारे स्थितस्य गुप्तसूचनादातुः माध्यमेन सूचना प्राप्ता यत् तेलौरानिकटे एकस्मिन् गृहे स्थितः कश्चन व्यक्तिः नशीलीभिः औषधिभिः सह तेलौरातः रोहुआमार्गे स्थितस्य यात्रासंस्थाकार्यालयस्य समीपात् अन्यत्र गन्तुं प्रयतते।
सूचनाम् आधारीकृत्य पुलिसदलं रोहुआमार्गे स्थितस्य यात्रासंस्थाकार्यालयस्य समीपं प्राप्तम्। तत्र निर्मितस्य गृहस्य समीपे एकः व्यक्तिः पुटकम् एकं बोरा च गृहीत्वा स्थितः दृष्टः। ततः पुलिसदलेन युक्तिपूर्वकं तं गृहीत्वा तस्य पुटकस्य अन्वेषणं कृतम्। अन्वेषणकाले २३८ शीशी कोडीन-कफसिरपः तथा द्वयोः पुटकयोः ५० आवरणेषु प्रत्येकस्मिन् आवरणे दश-दश गुलिकाः इति क्रमेण कुलम् ५०० निट्राजेपाम्-गुलिकाः प्राप्ताः।
न्यायिकबन्धे ग्रहीतस्य परिचयः
न्यायिकबन्धे ग्रहीतस्य अभियुक्तस्य नाम सूर्यप्रकाशयादवः इति। सः परशुरामयादवस्य पुत्रः, पिपरा नानकारग्रामनिवासी, पथराबाजारथानाक्षेत्रान्तर्गतः, सिद्धार्थनगरजनपदवासी च अस्ति। तस्य आयुः प्रायः ३० वर्षाणि अस्ति।
अभियुक्तेन पृच्छायां कथितं विवरणम्
पुलिसस्य पृच्छायाम् अभियुक्तेन कथितं यत् प्रायः एकमासपूर्वं तस्य जुनैदनामकेन युवकॆन सह मैत्री अभवत्। जुनैदस्य औषधिविक्रयणालयः बाँसीनगरस्य ५० शय्यायुक्तस्य चिकित्सालयस्य समीपे अस्ति। अभियुक्तस्य कथनानुसारं १९ अक्टूबर २०२६ दिनाङ्के जुनैदः तस्मै सम्पर्कं कृत्वा पुटके तथा बोरायां स्थापितं सामानं तेलौरां नीत्वा बसयाने स्थापयितुं भाटकं च दातुं कथितवान्।

एतदर्थं जुनैदः अभियुक्तस्य बैंकखाते ४,००० रूप्यकाणि प्रेषितवान् तथा १,००० रूप्यकाणि दातव्यानि अवशिष्टानि आसन् इति अभियुक्तेन कथितम्। सः उक्तं सामानं मुम्बईनगरं प्रेषयितुं तेलौराबाजारस्य यात्रासंस्थाकार्यालयम् आगतः आसीत्। तत्रैव पुलिसदलेन सः गृहीतः। प्रकरणे वाञ्छितस्य जुनैदस्य न्यायिकबन्धकरणाय पुलिसदलेन प्रयासाः क्रियमाणाः सन्ति।
अभियोगः तथा वैधानिककार्यप्रक्रिया
प्राप्तानां वस्तूनां तथा न्यायिकबन्धस्य आधारेण बाँसीपुलिसस्थानके अपराधसंख्या १९७/२०२६ इत्यन्तर्गतं स्वापकौषधि-मनोविकारकारीपदार्थ-अधिनियमस्य (NDPS Act) धारा ८/२२ इत्यनुसारम् अभियोगः पञ्जीकृतः। अभियुक्तस्य विरुद्धं आवश्यकवैधानिककार्यप्रक्रिया सम्पाद्य तं न्यायालये प्रस्तुतुं प्रक्रिया प्रचलति।
पुलिसदलाय पुरस्कारः
अस्य सफलकार्यस्य कृते सिद्धार्थनगरस्य वरिष्ठपुलिसाधीक्षकः सम्बन्धितं पुलिसदलं १०,००० रूप्यकाणां नकदपुरस्कारेण सम्मानितवान्।
न्यायिकबन्धकर्तुः पुलिसदलस्य विवरणम्
१. महेन्द्रप्रतापचतुर्वेदी — प्रभारी निरीक्षकः, बाँसीपुलिसस्थानकम्।
२. रामप्रतापसिंहः — उपनिरीक्षकः।
३. शम्सजावेदखानः — पुलिसकर्मी।
४. यशवन्तकुमारः — मुख्यारक्षी।
५. रामप्रकाशः — मुख्यारक्षी।
६. अमरनाथः — मुख्यारक्षी।
७. देवानन्दयादवः — मुख्यारक्षी।
८. वीरेन्द्रकुमारः — मुख्यारक्षी।
९. सन्तोषपाण्डेयः — मुख्यारक्षी।
१०. हमेन्तकुमारः — आरक्षी।
सर्वे सम्बन्धिताः पुलिसकर्मिणः सिद्धार्थनगरजनपदस्य बाँसीपुलिसस्थानकस्य दलस्य सदस्याः सन्ति।

You Might Also Like

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः

पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ

बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article न्यायिक-अवरोध-अवधेः समाप्त्यनन्तरं सीजेपी-नेत्रोः सौरवदासस्य आशुतोषरांकायाः च मुक्ति-आदेशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?