By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः
राजनैतिकवार्ताहिमाचलवार्ता

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

डॉ मनोज शैल
Last updated: 2026/09/13 at 9:32 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

 

हिमसंस्कृतवार्ता — मण्डी।

पूर्व-मुख्यमन्त्री तथा च विपक्ष-नेता जयराम-ठाकुरः नाचन-विधानसभा-क्षेत्रे पञ्चायतीराज-संस्थानां नवनिर्वाचित-जनप्रतिनिधीनां सम्मान-समारोहे भागम् अगृह्णात्। सः सर्वान् विजियिनः प्रतिनिधीन अभिनन्द्य पूर्ण-निष्ठया, समर्पणेन, जन-सेवा-भावेन च क्षेत्रस्य विकासाय संलग्नाः भवितुम् आहूतवान्। कार्यक्रमे तस्य आगमने सति स्थानीय-विधायकस्य विनोदकुमारस्य नेतृत्वे तस्य भव्यं स्वागतं विहितम्।

समारोहं सम्बोधयन् जयराम-ठाकुरः सुक्खू-सर्वकारस्य उपरि तीक्ष्णान् प्रहारान् अकरोत्। सः अवदत् यत् पञ्चायतीराज-संस्थाः लोकतन्त्रस्य दृढतमाः शृङ्खलाः सन्ति, किन्तु राज्य-सर्वकारेण पञ्चायत-निर्वाचनं स्थगयितुं सर्वे उपायाः प्रयुक्ताः। तस्य मतेन, सर्वोच्च-न्यायालयस्य हस्तक्षेपात् परमेव निर्वाचनानि सम्पूर्णाानि अभवन्। सः पक्षं कृतवान् यत् निर्वाचने जनतया काङ्ग्रेस-दलाय तीव्रा पराजयः दत्ता।

‘तालाबन्दी’ इति वर्तमान-सर्वकारस्य प्रतिमानम्

जयराम-ठाकुरेण आरोपः आरोपितः यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः पञ्चायत-प्रतिनिधीन् प्रधान-पदे द्रष्टुम् एव न ऐच्छत्। सः प्रोक्तवान् यत् राज्ये वर्तमान-सर्वकारस्य प्रतिमानं (Model) केवलं ‘तालाबन्दी’ तथा राजनैतिक-प्रतिशोधस्य भावना एव सञ्जाता। चतुर्वर्षाणां कार्यकालः पूर्णप्रायः वर्तते, किन्तु विकास-दृष्ट्या प्रदेशः अद्यापि तत्रैव तिष्ठति यत्र भाजपा-सर्वकारः इमं त्यक्तवान् आसीत्।

मुख्यमन्त्रिणः अधुनातने देहली-प्रवासे कटाक्षं कुर्वन् विपक्ष-नेता काङ्ग्रेस-दलस्य आभ्यन्तरे गुटबन्दी-भावस्य आरोपं दत्तवान्। सः अवदत् यत् केचन मन्त्रिणः मुख्यमन्त्रिणं पदच्युतं कर्तुं केचन च विधायकाः आत्मानं मन्त्रित्वेन योजयितुं नवदेहलीं गतवन्तः आसन्, किन्तु काङ्ग्रेस-उच्चकनेतृत्वेन राहुल-गान्धी-महोदयेन च तेभ्यः मेलनस्य समयः अपि न प्रदत्तः। सः आरोपम् अकरोत् यत् मुख्यमन्त्री जनसभासु विना सांविधानिक-प्रक्रियां औपचारिक-पत्रं विना च मन्त्रि-पदानां वितरणस्य उद्घोषणं करोति, येन दीर्घ-कालात् प्रतीक्षारताः विधायकाः नैराश्यम् अनुभवन्ति।

 

 २०२७ तमे वर्षे भाजपा-सर्वकार-निर्माणस्य उद्घोषणा

राजनैतिक-तथ्यानाम् उल्लेखं कुर्वन् जयराम-ठाकुरः प्रोक्तवान् यत् मण्डी-मण्डलेन २०१७ तथा २०२२ तमयोः वर्षयोः विधानसभा-निर्वाचनेषु भाजपा-दलाय महत् समर्थनं प्रदत्तम् आसीत्। सः दृढतया अकथयत् यत् २०२७ तमस्य वर्षस्य निर्वाचने मण्डी-मण्डलस्य सर्वेषु दशसु (१०) विधानसभा-आसनेषु भाजपा विजयं प्राप्स्यति। सः अवदत् यत् काङ्गड़ा-मण्डलेऽपि भाजपा-पक्षे अनुकूलं वातावरणं निर्मितं वर्तते, तत्र च दलं न्यूनातिन्यूनं द्वादशसु (१२) आसनेषु जयं प्राप्स्यति।

सः शिमला-हमीरपुर-जिवा-परिषदोः निर्वाचनेषु भाजपा-दलस्य विजयस्य दृष्टान्तं दत्त्वा अवदत् यत् मुख्यमन्त्रिणः गृह-मण्डले संसदीय-क्षेत्रेषु च जनतया काङ्ग्रेस-दलं तिरस्कृतम्। शिमला-मण्डल-परिषदः अध्यक्ष-उपाध्यक्ष-पदयोः उपरि भाजपायाः अधिकारं सः लोकतन्त्रस्य विजयः इति वर्णितवान्।

तेन आरोपः आरोपितः यत् सर्वकारेण सत्ता-बलेन जनप्रतिनिधीनां भर्त्सनस्य भयोत्पादनस्य च प्रयासाः कृताः, किन्तु जनतया प्रतिनिधिभिश्च सुक्खू-सर्वकारस्य विरुद्धं स्पष्टः सन्देशः दत्तः। जयराम-ठाकुरेण एतदपि निवेदितं यत् राजनैतिक-वैमनस्यस्य कारणात् भाजपा-दलस्य त्रयोदशानां (१३) विधायकानां पूर्व-विधायकानां चोपरि मिथ्या-प्राथमिकी (FIR) पञ्जीकृता, अधिकारिणश्च कूट-प्रकरणानां निर्माणाय पीड्यन्ते।

You Might Also Like

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

कृषकाणाम् आय-संवर्धनाय प्रयासाः; मक्का-गोधूमयो: च निर्धारयिष्यते न्यूनतम-समर्थन-मूल्यम् (MSP)

लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः

महत्तम-चिन्तायाः निवारणम् – स्थायिनः भविष्यन्ति शिक्षा-विभागस्य एते कर्मचारिणः; सर्वकारेण नियमितीकरणाय दत्ता स्वीकृतिः

शारीरिक-शिक्षा-शिक्षकाणां पृष्ठ-शेष-पदानां (बैकलॉग) ‘जॉब-ट्रेनी’-माध्यमेन पूरणे प्रतिबन्ध:, उच्चन्यायालयेन सर्वकारात् उत्तरं याचितम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Jai Ram Thakur, jairamthakur, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, जयरामठाकुर, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article महत्तम-चिन्तायाः निवारणम् – स्थायिनः भविष्यन्ति शिक्षा-विभागस्य एते कर्मचारिणः; सर्वकारेण नियमितीकरणाय दत्ता स्वीकृतिः
Next Article लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?