By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सीतापुरे संस्कृतप्रतिभान्वेषणप्रतियोगिता सम्पन्ना, छात्रैः प्रदर्शिता स्वप्रतिभा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तरप्रदेशसंस्करणम् > सीतापुरे संस्कृतप्रतिभान्वेषणप्रतियोगिता सम्पन्ना, छात्रैः प्रदर्शिता स्वप्रतिभा
उत्तरप्रदेशसंस्करणम्क्रीडावार्ताःसंस्कृतस्पर्धा:

सीतापुरे संस्कृतप्रतिभान्वेषणप्रतियोगिता सम्पन्ना, छात्रैः प्रदर्शिता स्वप्रतिभा

सत्येंद्र पाठक:
Last updated: 2026/08/31 at 6:22 PM
सत्येंद्र पाठक:
Share
1 Min Read
SHARE

सीतापुरे संस्कृतप्रतिभान्वेषणप्रतियोगिता सम्पन्ना, छात्रैः प्रदर्शिता स्वप्रतिभा

सीतापुरम्। उत्तरप्रदेशसंस्कृतसंस्थानेन, लखनऊद्वारा आयोजितायाः ‘संस्कृतप्रतिभान्वेषणप्रतियोगिता–२०२६’ अन्तर्गतं सीतापुरजनपदस्तरीय-संस्कृतसामान्यज्ञान-संस्कृतगीतप्रतियोगितयोः आयोजनं ३१ अगस्त २०२६ दिनाङ्के श्यामदासपुरस्थिते आशुतोषबृजमोहनलालस्मारकमहाविद्यालये उत्साहपूर्णवातावरणे सम्पन्नम्। जनपदस्य विभिन्नविद्यालयेभ्यः आगतैः छात्रैः प्रतियोगितायां उत्साहेन सहभागः कृतः।

प्रतियोगितायां छात्रैः संस्कृतभाषायाः प्रति स्वीयां रुचिं, ज्ञानं प्रतिभां च प्रस्तुतम्। संस्कृतसामान्यज्ञानप्रतियोगितायां गौरवमिश्र प्रथमस्थानं, आयुषी सिंह द्वितीयस्थानं तथा अनिकेतपोरवाल तृतीयस्थानं प्राप्तम्। तथैव संस्कृतगीतप्रतियोगितायां प्रतीक्षाराजा प्रथमस्थानं, आरुषीमिश्रा द्वितीयस्थानं तथा विकासकुमारः तृतीयस्थानं प्राप्तवन्तः। विजेतृछात्रैः स्वप्रतिभायाः उत्कृष्टं प्रदर्शनं कृत्वा उपस्थितानां मनांसि आकृष्टानि।

कार्यक्रमे मौलानाआजादस्य संस्कृतशिक्षकः श्रीप्रदीपकुमारः मुख्यातिथिरूपेण उपस्थितः आसीत्। सः छात्रान् सम्बोधयन् संस्कृतप्रतिभान्वेषणस्य महत्त्वं प्रतिपादितवान् तथा संस्कृताध्ययने निरन्तरं प्रवृत्ताः भवितुं छात्रान् प्रेरितवान्।

प्रतियोगितायाः निर्णायकमण्डले फखरुद्दीनअलीअहमदराजकीयस्नातकोत्तरमहाविद्यालयस्य संस्कृतशिक्षिका डॉ. जेबाखान्, हिन्दीशिक्षकः डॉ. सलिलतिवारी, उत्तरप्रदेशसंस्कृतसंस्थाने कार्यरतः श्रीसत्येन्द्रपाठकः तथा सुश्री मन्तशाजहाँ उपस्थिताः आसन्। निर्णायकमण्डलेन छात्राणां प्रस्तुतयः सूक्ष्मतया परीक्ष्य परिणामाः निर्धारिताः।

प्रतियोगितायाः सञ्चालनं जनपदसंयोजिका सुश्री महकगुप्ता अकरोत्। सा प्रतिभागिभ्यः प्रतियोगितायाः नियमाः प्रक्रियां च अवगतवती तथा तान् उत्साहेन सहभागितायै प्रेरितवती। सम्पूर्णे कार्यक्रमे छात्रेषु विशेषः उत्साहः दृष्टः।

कार्यक्रमस्य समापनं संस्थायाः उपप्रबन्धकस्य श्री अञ्जनेय आशीष वाजपेयी इत्यस्य मार्गदर्शनेन सम्पन्नम्। सः छात्राणां प्रयासानां प्रशंसां कृत्वा संस्कृतभाषायाः अध्ययनाय, सम्भाषणाय भारतीयज्ञानपरम्परायाः च परिचयाय निरन्तरं प्रयत्नं कर्तुं प्रेरितवान्।

अवसरेऽस्मिन् उपस्थितैः अतिथिभिः निर्णायकमण्डलेन च विजेतृछात्रेभ्यः हार्दिकशुभकामनाः प्रदत्ताः। संस्कृतप्रतिभान्वेषणप्रतियोगितया छात्राणां प्रतिभायाः प्रदर्शनाय प्रभावी मञ्चः प्राप्तः तथा तेषु संस्कृतभाषायाः प्रति अनुरागः उत्साहश्च वर्धितः।

You Might Also Like

नवीनशिक्षानीतौ संस्कृतस्य भविष्यं च इति विषये व्याख्यानगोष्ठी सम्पन्ना

लोकसभायां ५४३ सदस्यसङ्ख्या किमर्थं ५४३ एव भवेत्?

बाराबङ्क्याम् संस्कृतप्रतिभान्वेषणप्रतियोगितायां विद्यार्थिभिः प्रदर्शिता प्रतिभा

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

बागपते जनपदीयाः संस्कृतगीत-सामान्यज्ञानप्रतियोगिताः सम्पन्नाः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article वैद्यकीय-महाविद्यालयेषु ५०० कोटि-मूल्यस्य यन्त्राणि, ३०० वैद्यकीय-अधिकारिणः तथा ३५० विशेषज्ञ-वैद्याः नियुक्ताः भविष्यन्ति – मुख्यमंत्री सुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?