
बाराबङ्क्याम् संस्कृतप्रतिभान्वेषणप्रतियोगितायां विद्यार्थिभिः प्रदर्शिता प्रतिभा
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।
बाराबङ्की। लखपेड़ाबागस्थिते पायनियर मांटेसरी इण्टर कॉलेज इत्यस्मिन् उत्तरप्रदेशसंस्कृतसंस्थानेन, लखनऊद्वारा आयोजितायाः संस्कृतप्रतिभान्वेषणप्रतियोगिता–२०२६ इत्यस्य जनपदस्तरीयप्रतियोगितायाः भव्यः शुभारम्भः अभवत्। कार्यक्रमस्य प्रारम्भः विद्यालयस्य बालिकाभिः सरस्वतीपूजन-वन्दनेन तथा बालकैः भगवान् श्रीगणेशस्य वन्दनया अभवत्। विद्यालयस्य प्रधानाचार्या श्रीमती सुमनशुक्लया अतिथीनां हार्दिकं स्वागतं कृतम्।
मुख्यातिथिः बेसिकशिक्षाधिकारी श्री नवीनकुमारपाठकः तथा निर्णायकमण्डलस्य सदस्याः श्री विनयशुक्लः, डॉ. गिरजाशङ्करः, डॉ. उमामौर्या एवं श्री सीताकान्तस्वयंभू इत्येते दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः। जनपदसंयोजकः डॉ. रञ्जितकुमारवर्मा प्रतियोगितायाः उद्देश्यं, नियमांश्च प्रतिभागिभ्यः अवगतं कारयन् तान् उत्साहेन सहभागितायै प्रेरितवान्।
संस्कृतसामान्यज्ञानप्रतियोगितायां नीतूसिंहः प्रथमस्थानं, पङ्खुड़ी द्वितीयस्थानं तथा लकी यादवः तृतीयस्थानं प्राप्तवन्तः। सांत्वनापुरस्काराय रिद्धिपटेलः, सत्यानन्दआजादः तथा आर्यासिंहः चयनिताः।
संस्कृतगीतप्रतियोगितायां प्रतिभागिभिः मधुरस्वरेण संस्कृतगीतानि प्रस्तुतानि। प्रतियोगितायां साक्षीयादवः प्रथमस्थानं, प्राप्तिसिंहः द्वितीयस्थानं तथा अञ्जलीमिश्रा तृतीयस्थानं प्राप्तवत्यः। अंशिकाकसौधनः, वन्दनाचौहानः तथा दिव्यागौण्डः सांत्वनापुरस्काराय चयनिताः।
प्रतियोगितानां समापनानन्तरं पुरस्कारवितरणकार्यक्रमः अभवत्। विजेतृभ्यः प्रमाणपत्रैः पुरस्कारैश्च सम्मानः कृतः। आयोजकया प्रधानाचार्यया श्रीमती सुमनशुक्लया निर्णायकमण्डलस्य, अतिथीनां तथा जनपदसंयोजकस्य प्रति आभारः प्रकटितः।
प्रतियोगितायां प्रथम-द्वितीय-तृतीयस्थानं प्राप्तवन्तः प्रतिभागिनः आगामी मण्डलस्तरीयप्रतियोगितायां सहभागितां करिष्यन्ति। अनेन आयोजनने विद्यार्थिषु संस्कृतभाषायाः प्रति उत्साहः वर्धितः तथा स्वप्रतिभाप्रदर्शनाय तेषां महत्त्वपूर्णः अवसरः प्राप्तः।
