
नैमिषारण्ये संस्कृतसप्ताहे निबन्धप्रतियोगिता, भाषाक्रीडा च श्लोकान्त्याक्षरी च सम्पन्ना
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।
सीतापुरम्। नैमिषक्षेत्रस्थिते आत्मानन्दसंस्कृतशिक्षणसंस्थाने संस्कृतभारती, सीतापुरस्य तत्त्वावधानेन प्रचलितस्य संस्कृतसप्ताहस्य अन्तर्गतं निबन्धप्रतियोगिता, भाषाक्रीडा तथा श्लोकान्त्याक्षरीप्रतियोगिता आयोजिताः। सर्वासु प्रतियोगितासु बटुकैः उत्साहपूर्वकं सहभागिता कृता। कार्यक्रमस्य मार्गदर्शनं संस्कृतभारत्याः कार्यकर्त्रा सत्येन्द्रपाठकेन कृतम्।
निबन्धप्रतियोगितायां संस्कृतेन विचाराभिव्यक्तिः
कार्यक्रमस्य प्रथमचरणे निबन्धप्रतियोगिता आयोजिताभवत्। अस्यां बटुकैः संस्कृतभाषा, भारतीयसंस्कृतिः तथा नैमिषारण्यस्य महत्त्वम् इत्यादिषु विषयेषु संस्कृतभाषया स्वकीयाः विचाराः लिखितरूपेण प्रस्तुताः।
सत्येन्द्रपाठकेन उक्तं यत् निबन्धप्रतियोगितायाः उद्देश्यं बटुकानां संस्कृते लेखनक्षमतायाः विकासः तथा स्वविचारान् शुद्धसंस्कृते अभिव्यक्तुं तेषां प्रोत्साहनम् अस्ति। लेखनाभ्यासेन भाषायां बालकानां वास्तविकं प्रभुत्वं विकसितुं शक्नोति इति तेन प्रतिपादितम्।

भाषाक्रीडाभिः संस्कृताध्ययनं सहजम्
निबन्धप्रतियोगितायाः अनन्तरं बटुकानां कृते विविधाः भाषाक्रीडाः आयोजिताः। तासां माध्यमेन संस्कृतशब्दानां प्रयोगः, वाक्यरचना तथा सम्भाषणस्य अभ्यासः कारितः। बटुकाः विभिन्नेषु समूहेषु विभज्य उत्साहपूर्वकं भाषाक्रीडासु सहभागितां कृतवन्तः।
भाषाक्रीडाभिः संस्कृताध्ययनं सहजं रोचकं च भवति तथा बालकेषु संस्कृतभाषायाः प्रति विद्यमानः भयभावः अपि दूरीभवति इति सत्येन्द्रपाठकेन उक्तम्।
श्लोकान्त्याक्षर्यां बटुकानां उत्साहः
कार्यक्रमस्य प्रमुखाकर्षणं श्लोकान्त्याक्षरीप्रतियोगिता आसीत्। प्रतियोगितायां बटुकाः द्वयोः समूहयोः विभक्ताः। एकस्मिन् समूहस्य पठितस्य श्लोकस्य अन्तिमाक्षरेण आरभ्यमाणस्य अन्यस्य श्लोकस्य पाठनं द्वितीयसमूहेन करणीयम् आसीत्।
अस्यां प्रतियोगितायां बटुकैः श्रीमद्भगवद्गीता, रामायणम् तथा अन्येभ्यः संस्कृतग्रन्थेभ्यः श्लोकाः स्मृत्वा उत्साहेन प्रस्तुताः। प्रतियोगितया बटुकानां स्मरणशक्तेः, श्लोकज्ञानस्य तथा संस्कृतभाषाप्रयोगस्य च विकासः अभवत्।

संस्कृतप्रयोगाय प्रेरणा
कार्यक्रमस्य समापनावसरे सत्येन्द्रपाठकेन सर्वेभ्यः प्रतिभागिबटुकेभ्यः उत्साहपूर्णसहभागितायै शुभकामनाः प्रदत्ताः। तेन उक्तं यत् संस्कृतभारत्याः उद्देश्यं केवलं प्रतियोगितानाम् आयोजनं न, अपितु बालकेषु संस्कृतभाषायाः प्रति स्वाभाविकानुरागस्य निर्माणम् अस्ति।
‘मम स्थाने संस्कृतम्’ इति ध्येयवाक्यं स्वीकृत्य बटुकाः दैनिकजीवने संस्कृतभाषायाः प्रयोगं कुर्वन्तु इति सः आह्वानं कृतवान्।

नमो नमः