संस्कृतसप्ताहसमारोहः भव्यः शुभारम्भः
— प्रथमदिवसस्य माध्यमप्रतिवेदनम्
स्थानम् — श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयः, कोलकाता
कोलकातायां संस्कृतसप्ताहसमारोहस्य भव्यः शुभारम्भः
कोलकातास्थिते श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये २५ अगस्त् २०२६ दिनाङ्के संस्कृतसप्ताहसमारोहस्य प्रथमदिवसः श्रद्धया, उत्साहेन च विविधैः कार्यक्रमैः सह सम्पन्नः। अयं संस्कृतसप्ताहसमारोहः २५ अगस्त् तः ३१ अगस्त् २०२६ पर्यन्तम् आयोजितः अस्ति।
प्रथमदिने प्रातः रुद्राभिषेकः तथा हवनकार्यक्रमः च आयोजितौ। रुद्राभिषेककार्यक्रमे यजमानत्वेन महाविद्यालयस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रः उपस्थितः आसीत्। हवनकार्यक्रमे अरणिजन्याग्निना वैदिकविधिना हवनं सम्पन्नम्। महाविद्यालयस्य सर्वे छात्राः आचार्याश्च श्रद्धापूर्वकं कार्यक्रमेषु उपस्थिताः आसन्।
मध्याह्ने संस्कृतभाषायाः प्रचारप्रसाराय भव्यायाः संस्कृतशोभायात्रायाः आयोजनं कृतम्। महाविद्यालयतः महामिलनमठपर्यन्तमियं शोभायात्रा प्रवृत्ता। छात्रैः, आचार्यैः तथा अन्यैः सहभागिभिः उत्साहपूर्वकं शोभायात्रायां सहभागिता कृता। तदुत्तरं महामिलनमठे सर्वेभ्यः प्रसादः अपि प्रदत्तः।
अपराह्णे त्रिवादने छात्रैः विविधाः सांस्कृतिकाः कार्यक्रमाः प्रस्तुताः। संस्कृतगीतैः, श्लोकपाठेन, नाट्यप्रस्तुतिभिः तथा अन्याभिः सांस्कृतिकाभिः प्रस्तुतिभिः कार्यक्रमः आकर्षकः अभवत्।
सायं चतुर्वादने महाविद्यालयस्य मुख्यसभागारे उद्घाटनसत्रम् आयोजितम्। सत्रस्य संरक्षकः केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेडीवर्यः आसीत्। मुख्यातिथिरूपेण वेदविज्ञानशोधसंस्थानस्य, बेङ्गलूरु इत्यस्य अध्यक्षः प्रो. रामचन्द्र जि. भट्टवर्यः उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां महाविद्यालयस्य अध्यक्षः प्रो. एस्. सुब्रह्मण्यशर्मावर्यः अकरोत्। महाविद्यालयस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रः विशिष्टभूमिकां निर्वहन् उपस्थितः आसीत्। कार्यक्रमसमन्वयकः डॉ. सुब्रह्मण्यभट्टः अपि उपस्थितः आसीत्। सर्वे आचार्याः छात्राः अभिभावकाश्च कार्यक्रमेऽस्मि उपस्थाय शोभां वर्धितवन्तः। प्रो. रामचन्द्र जी. भट्टवर्यैः संस्कृतसम्भाषणशिबिरस्य, श्रीमद्भगवद्गीताध्ययनप्रकल्पस्य च उद्घाटनं कृतम्। कार्यक्रमे संस्कृतभाषायाः प्रचारप्रसारस्य, छात्रेषु संस्कृताध्ययनस्य रुचेः संवर्धनस्य तथा भारतीयज्ञानपरम्परायाः संरक्षणस्य महत्त्वं प्रतिपादितम्।
प्रथमदिवसस्य कार्यक्रमाः छात्राणां, आचार्याणां तथा सहभागिनां सक्रियसहयोगेन सफलतया सम्पन्नाः।
