
अयोध्यायां जनपदस्तरीयः संस्कृतप्रतिभाखोजप्रतियोगिताः सम्पन्नाः
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।
अयोध्या। उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा आयोजितायाः ‘संस्कृतप्रतिभाखोज–२०२६’ प्रतियोगितायाः अन्तर्गतं अयोध्याजनपदे जनपदस्तरीयाः संस्कृतगीतप्रतियोगिता तथा संस्कृतसामान्यज्ञानप्रतियोगिता (बालवर्गः) उत्साहपूर्णे गरिमामये च वातावरणे सम्पन्ने।
कार्यक्रमस्य शुभारम्भः मुख्यातिथिना अयोध्यायाः महापौरः महन्तगिरीशपतित्रिपाठीमहाराजेन दीपप्रज्वालनेन कृतः। अस्मिन् अवसरे मुख्यातिथिना उक्तं यत् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा आयोजितं ‘संस्कृतप्रतिभाखोज’ इति आयोजनम् अत्यन्तम् अद्भुतं प्रशंसनीयं च प्रयासः अस्ति। सम्पूर्णप्रदेशात् संस्कृतप्रतिभानां अन्वेषणं कृत्वा तासां पुरस्कारेण प्रोत्साहनेन च सम्माननं सराहनीयम् अनुकरणीयं च कार्यम् अस्ति। अनेन भाविपीढ्यां संस्कृतभाषायाः प्रति अनुरागः निश्चितरूपेण वर्धिष्यते।
संस्कृतगीतप्रतियोगितायां आयुषः प्रथमस्थानम्
संस्कृतगीतप्रतियोगितायां आयुषकुमारः प्रथमस्थानं, शनियादवः द्वितीयस्थानं तथा शिवानी तृतीयस्थानं प्राप्तवती। सौरभः, अनिकेतः तथा अंशिकागौडः सान्त्वनापुरस्काराय चयनिताः।

संस्कृतसामान्यज्ञानप्रतियोगितायां रघुनन्दनः प्रथमः
संस्कृतसामान्यज्ञानप्रतियोगितायां रघुनन्दनः प्रथमस्थानं, गोविन्दशुक्लः द्वितीयस्थानं तथा सिद्धान्तशुक्लः तृतीयस्थानं प्राप्तवन्तः। हर्षितः, ईशा तथा नवीनमिश्रः सान्त्वनापुरस्काराय चयनिताः।

निर्णायकमण्डले विद्वांसः उपस्थिताः
प्रतियोगितायाः निर्णायकमण्डले डॉ. अखिलेशकुमारः, सहायकप्राध्यापकः, साकेतपी.जी.महाविद्यालयः, अयोध्या; आचार्यः चन्दनकुमारआर्यः, सहायकाचार्यः, गुरुकुलमहाविद्यालयः, शाहजहाँपुर; डॉ. रामतेजपाण्डेयः, राष्ट्रपतिसम्मानितः पूर्वप्राचार्यश्च, योगीराजसंस्कृतमहाविद्यालयः, अयोध्या तथा श्रीमती कुसुमा, प्रवक्त्री, महाराजाइण्टरकॉलेजः, अयोध्या इत्येते सदस्याः आसन्।
कार्यक्रमे जनपदसंयोजकः दीपुकुमारपाण्डेयः तथा मण्डलसंयोजकः मनीषदेवः सहितं विभिन्नविद्यालयानां प्रधानाचार्याः, शिक्षकाः, अभिभावकाः तथा छात्रछात्राः उपस्थिताः आसन्।
कार्यक्रमस्य सफलायोजनाय उपस्थितैः अतिथिभिः सर्वेभ्यः विजेतृभ्यः प्रतिभागिभ्यश्च शुभकामनाः प्रदत्ताः। संस्कृतभाषायाः अध्ययनं, संरक्षणं संवर्धनं च प्रति निरन्तरं प्रयत्नं कर्तुं छात्राः प्रेरिताः। प्रतियोगितायाः माध्यमेन अयोध्याजनपदे संस्कृतप्रतिभानां प्रोत्साहनाय नूतनः उत्साहः सञ्चारितः।

