By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्
बिहारवार्ताः

बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/08/19 at 7:28 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

बिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

भागलपुरम्, बिहार,१८ अगस्त २०२६।
अङ्गप्रदेशस्य लोकसंस्कृतेः दृढश्रद्धायाश्च प्रतीकभूतः बिहुलाविषहरीमहोत्सवः बिहारराज्यस्य भागलपुरनगरे भव्यतया पारम्परिकोल्लासेन च आरब्धः जात:। सोमवासरे प्रात:कालादारभ्य जनपदस्य सर्वेषु पूजामण्डपेषु देवालयेषु च माता मनसाविषहरीमातु: दर्शनार्थं डलियासमर्पणार्थं च श्रद्धालूनां महासम्मर्द: दृष्ट:। सायंकाले वैदिकपारम्परिकविधिना भगतपूजन अभवत्, ततः परं रात्रौ वाद्यघोषैः सह बाललखेन्द्रस्य वरयात्रा अगच्छत् तथा लोकगाथानुसारं सतीबिहुलया सह विवाहस्य समस्ताः विधयः सम्पन्नाः अभवन्। अस्मिन् वर्षे
भागलपुरजनपदे १८२, नगरे च ११६ स्थानेषु विषहरीमातु: प्रतिमा: प्रतिष्ठापिता: सन्ति।चम्पानगरस्थिते मनसाविषहरीस्थाने, परबत्ती, ईशाकचक, भीखनपुर, खञ्जरपुर, बरारीकालोनी, गोशाला, दीपनगर, जोगसरादिषु प्रमुखस्थानेषु मातुः पूजामण्डपानि सुशोभितानि सन्ति। विषहरीपूजास्थलेषु भगतलीलाया: आयोजनम् अभवत्। भगताः पारम्परिकवेषभूषां धारयन्तः नृत्यन्तः मनौनगीतानि गायन्तः गङ्गास्नानं कृत्वा पूजां सम्पादयन्ति स्म। महाशयड्योढ़ीस्थिते ऐतिहासिके लोहाबासगृहे विजयप्रकाश-झा इत्यस्य नेतृत्वे पूजनं सम्पन्नम् अभवत्, यस्मिन् देवाशीषबनर्जी, काकुलीबनर्जी तथा अन्ये गणमान्यजना: उपस्थिताः आसन्। मोहद्दीनगरकागजीटोलातः रात्रौ सार्धाष्टवादने चान्दोसौदागरपुत्रस्य बाललखेन्द्रस्य वरयात्रा निरगच्छत्, या मोहद्दीनगरदुर्गास्थानमार्गेण पुनः पूजास्थलं प्राप्स्यति। परबत्तीक्षेत्रे रात्रौ एकादशवादने सतीबिहुलालखेन्द्रयोः विवाहः सम्पन्नः अभवत्। ईशाकचकबुढ़ियाविषहरीस्थानात् रात्रौ अष्टवादने, मिरजानहाटमार्गात् च नववादने वाद्यवृन्दैः सह वरयात्राः निरगच्छन्।चम्पानगरे बडीखञ्जरपुरक्षेत्रे
च लोकगाथाधारिताः सजीवदृश्याणि श्रद्धालूनां विशेषाकर्षणस्य केन्द्रानि आसन्। नागकलशान् धारयन्त्यः महिलाः “विषहरी-मातुः जयः” इति जयघोषान् कुर्वन्त्यः भक्तिरसे निमग्नाः दृश्यन्ते।
अस्मिन्नवसरे केन्द्रीयपूजासमितेः अध्यक्षः भोलाकुमारमण्डलः, कार्यकारी अध्यक्षः प्रदीपकुमारः, महासचिवः शशि शङ्कर रायः तथा अन्ये पदाधिकारिण: विविधेषु पूजास्थलेषु गत्वा व्यवस्थायाः निरीक्षणम् अकुर्वन्।
आदमपुरस्थिते रानीचन्द्रावतीपरिसरे प्रतिष्ठापितायाः स्थायिप्रतिमायाः अपि विधिविधानपूर्वकं पूजनम् अभवत्। निर्धारितकार्यक्रमानुसारं मुख्यप्रतिमानां तु पारम्परिकरीत्या बुधवासरे भव्यविसर्जनसमारोहस्य आयोजनं भविष्यति।
वार्ता प्रेषक:-डाॅ विमलेश झा, भागलपुर, बिहार

You Might Also Like

सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्

विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम्

सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article बिहारवार्ता-ः प्रत्येक-क्षेत्रीयभाषायै स्थापयिष्यते ‘उत्कृष्टता-केन्द्रम्’ (Centre of Excellence)
Next Article कृषिमन्त्री शिवराजसिंहचौहानः उभयोः मन्त्रालययोः अधिकारिभ्यः कर्मचारिभ्यश्च ‘शक्तेः सप्तधारा’-शपथम् अकारयत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?