By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शिमलायां भाजपा-दलस्य उग्रं विरोध-प्रदर्शनम्, मुख्यमन्त्रि-आवासं ‘ओकओवर’-प्रति प्रयाणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > शिमलायां भाजपा-दलस्य उग्रं विरोध-प्रदर्शनम्, मुख्यमन्त्रि-आवासं ‘ओकओवर’-प्रति प्रयाणम्
राजनैतिकवार्ताहिमाचलवार्ता

शिमलायां भाजपा-दलस्य उग्रं विरोध-प्रदर्शनम्, मुख्यमन्त्रि-आवासं ‘ओकओवर’-प्रति प्रयाणम्

डॉ मनोज शैल
Last updated: 2026/08/05 at 8:44 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

शिमलायां भाजपा-दलस्य उग्रं विरोध-प्रदर्शनम्, मुख्यमन्त्रि-आवासं ‘ओकओवर’-प्रति प्रयाणम्

हिमसंस्कृतवार्ता: — शिमला।

हिमाचले भाजपा-नेतृणाम्, विधायकानां जनप्रतिनिधीनां च विरुद्धं पञ्जीकृतानाम् एफ.आई.आर.-प्रकरणानां विरोधे बुधवासरे भारतीय-जनता-पाटी (भाजपा) राजमार्गेषु अवतीर्णा। भाजपा-विधायक-दलेन, दल-पदाधिकारिभिः बृहत्-सङ्ख्याकैः कार्यभिश्च शिमलायाः सी.टी.ओ.-चतुष्पथि (सीटीओ चौक) काङ्ग्रेस-सर्वकारस्य विरुद्धं तीव्रं प्रदर्शनं कृतम् उच्चैः घोषा: (नारेबाजी) च कृताः। प्रदर्शनात् परं भाजपा-विधायक-दलं कार्यकर्तारश्च मुख्यमन्त्रिणः सर्वकारीय-आवासं ‘ओकओवर’-प्रति प्रस्थिताः।

मुख्यमन्त्रि-आवासस्य वेष्टनस्य (घेराव) घोषणाम् आधारीकृत्य ‘ओकओवर’-इत्यस्य बहिः आरक्षक-सुरक्षा (Police Security) वर्धिता अतिरिक्ता आरक्षक-सेना च नियोजिता। भाजपा-दलस्य आरोपः अस्ति यत् काङ्ग्रेस-सर्वकारः राजनीतिक-प्रतिशोधस्य भावेन भाजपा-दलस्य वर्त्तमानानां पूर्वतनानां च विधायकानां तथैव अन्यानां जनप्रतिनिधीनां विरुद्धं मिथ्या-अभियोगाः पञ्जीकरोति। दलस्य कथनम् अस्ति यत् सर्वकारः सत्तायाः दुरुपयोगं कृत्वा विपक्षस्य स्वरं निहन्तुं (दबाने का) प्रयासं करोति, यस्य विरोधे एतत् आन्दोलनम् आरब्धम् अस्ति। भाजपा-दलेन स्पष्टीकृतं यत् सः अस्मिन् विषये स्वकीयम् आन्दोलनम् अविरतं स्थापयिष्यति, यदा च मुख्यमन्त्रि-आवासं प्रति गच्छतः प्रदर्शकान् दृष्ट्वा प्रशासनेन सुरक्षा-व्यवस्था कठोरा कृता।

 

जयरामठाकुरेण सर्वकाराय दत्ता सचेतना

नेता-प्रतिपक्षः जयरामठाकुरः अवदत् यत् भाजपा-प्रदेश-अध्यक्षः राजीवबिन्दलः सहितं बहवः वर्त्तमानाः पूर्वतनाश्च विधायकाः निरन्तरं मिथ्या-अभियोगेषु पञ्जीक्रियमाणाः सन्ति। तेन प्रोक्तं यत् एतस्मात् कारणात् भाजपा-दलं राजमार्गेषु अवतरितुम् विवशं जातम्। तेन पक्ष: कृतः यत् भाजपा-दलस्य वर्त्तमानेषु पूर्वतनेषु च विधायकेषु अधुना यावत् प्रायः एक-द्वादश (दश-द्वादश) अभियोगाः पञ्जीकृताः सन्ति प्रदेशस्य इतिहासे च पूर्वं कदापि एतादृशं न अभवत्।

*अधिकारिभ्यः अपि सचेतना*

जयरामठाकुरेण मुख्यमन्त्रिणे सुखविन्दरसिंहसुक्खू-महोदयाय सचेतनां यच्छता प्रोक्तं यत् सर्वकारः एतादृशीं कार्याचरिणां अत्रैव स्थगयतु, अन्यथा भविष्ये गम्भीराः राजनैतिकाः परिणामाः भोक्तव्याः भवेयुः। तेन उक्तं यत् भाजपा-दलं एतं विषयं विधानसभायाम् अपि प्रमुखतया उत्थापयिष्यति। तेन एतदपि उक्तं यत् यदि राजनीतिक-द्वेषस्य भावेन केनापि अधिकारिणा कार्याचरिणा कृता अस्ति तर्हि तादृशानाम् अधिकारिणां ‘रिकॉर्ड’-पत्रं स्थापयिष्यते भविष्ये भाजपा-सर्वकारे निर्मिते सति तेषां विरुद्धं कार्याचरिणा करिष्यते।

 

‘राजनीतिक-द्वेषेण कार्यं करोति सर्वकारः’ : राजीवबिन्दलः

भाजपाप्रदेश-अध्यक्षः राजीवबिन्दलः आरोपम् अकरोत् यत् सुक्खू-सर्वकारः राजनीतिक-द्वेषस्य भावेन कार्यं करोति। तेन प्रोक्तं यत् भाजप-दलेन सर्वकारस्य विरुद्धं प्रदेशव्यापी-आन्दोलनस्य शङ्खनादः कृतः अस्ति एतत् आन्दोलनम् आगामि-दिनेषु सम्पूर्ण-प्रदेशे निरन्तरं स्थास्यति।

 

रणधीरशर्मा अवदत् – ‘प्रमुखाः नेतारः लक्ष्यीक्रियन्ते’

भाजपा-विधायकः रणधीरशर्मा आरोपम् अकरोत् यत् प्रदेश-अध्यक्षः राजीवबिन्दलः, विधायकः सुधीरशर्मा, पूर्व-विधायकः होशियारसिंहः, पूर्व-विधायकः राजेन्द्रराणा इति सहितेषु बहुषु भाजप-नेतृषु मिथ्या-प्रकरणाानि पञ्जीकृतानि सन्ति। तेन प्रोक्तं यत् सर्वकारः प्रदेशस्य वास्तविकेभ्यः विषयेभ्यः जनतायाः ध्यानं दूरीकर्तुं विपक्षी-नेतृषु अभियोगाः पञ्जीकारयति।

You Might Also Like

वैध-बीमां विना न लप्स्यते इन्धनम्!, सर्वोच्च-न्यायालयः ‘IRDAI’-संस्थायै प्रेषितवान् प्रस्तावम्

शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्

MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्

२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’

हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ‘गजनी’ चलच्चित्रस्य खलनायकः प्रदीप रावतः दिवङ्गतः, आमिरखानेन सह ‘लगान’ चलच्चित्रे अपि दृष्टः आसीत्, ‘महाभारते’ अपि अभिनयं कृतवान्
Next Article वैध-बीमां विना न लप्स्यते इन्धनम्!, सर्वोच्च-न्यायालयः ‘IRDAI’-संस्थायै प्रेषितवान् प्रस्तावम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?