By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > शिक्षावार्ता: > बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्
शिक्षावार्ता:प्रादेशिकवार्ता

बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/07/21 at 4:30 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्
दार्लिपाली (ओडिशा), २० जुलै।
बालभारती सार्वजनिकविद्यालये, एनटीपीसी दार्लिपाल्यां, दिनाङ्के २० जुलै २०२६ तमे दिने भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस (Junior Red Cross – JRC) इत्यनयोः इकायोः उद्घाटनसमारोहः गौरवपूर्णेन उत्साहपूर्णेन च वातावरणेन सम्पन्नः। अयं कार्यक्रमः विद्यालयस्य प्रधानाचार्याया श्रीमत्याः उन्नति जोशी महोदयायाः नेतृत्वे, चाइल्ड एजुकेशन सोसायटी संस्थायाः अध्यक्षा श्रीमती मीनू गोस्वामी महोदया तथा सचिव-प्रबन्धिका श्रीमती नानू रेखी महोदया इत्येतयोः मार्गदर्शनेन, एनटीपीसी दार्लिपालेः सहयोगेन च सफलतया आयोजितः।
कार्यक्रमे डाॅ. विभीषण बारिक (जिलायुक्तः, भारत-स्काउट्स-गाइड्स, सुन्दरगढ़), श्री अनिलकुमार पाणिग्रही (जिलायुक्तः, कनिष्ठ-रक्त-क्रॉस, सुन्दरगढ़), श्रीमती खिलेन्द्री पटेल (डी.टी.सी., गाइड), श्री श्रीकान्त साह (जिलाप्रतिनिधिः, स्काउट) तथा श्रीमती विजयलक्ष्मी नाइक (जे.आर.सी. समन्वयिका) इत्येते विशिष्टातिथयः उपस्थिताः। विद्यालयपरिवारेण तेषां पुष्पगुच्छैः स्मृतिचिह्नैश्च सादरं स्वागतं कृतम्।
दीपप्रज्वलनेन सरस्वती-वन्दनया च कार्यक्रमस्य शुभारम्भः अभवत्। ततः परं अतिथिभिः भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः विधिवद् उद्घाटनं कृतम्। स्वीयसम्बोधने डाॅ. विभीषण बारिक महोदयः स्काउट्स-गाइड्सस्य सेवाभावं, अनुशासनम्, नेतृत्वगुणं, स्वावलम्बनं राष्ट्रभक्तिं च विशेषतया प्रतिपादितवान्। श्री अनिलकुमार पाणिग्रही महोदयः कनिष्ठ-रक्त-क्रॉसस्य माध्यमेन विद्यार्थिषु मानवसेवा, स्वास्थ्यजागरूकता, प्राथमिक-चिकित्साज्ञानं तथा सामाजिक-उत्तरदायित्वभावनायाः विकासस्य महत्त्वम् अवदत्।
अवसरे चयनितविद्यार्थिभ्यः स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः स्कार्फाः परिधाप्य सदस्यत्वं प्रदत्तम्। प्रधानाचार्या श्रीमती उन्नति जोशी महोदया स्वीयसम्बोधने उक्तवती यत् एतादृशाः सहशैक्षिककार्यक्रमाः विद्यार्थिनां सर्वाङ्गीणव्यक्तित्वविकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति। तैः नेतृत्वक्षमता, सेवाभावः, अनुशासनम्, आत्मविश्वासः, नैतिकमूल्यानि च विकसितानि भवन्ति।
अयं कार्यक्रमः संयुक्तराष्ट्रसङ्घस्य सतत-विकास-लक्ष्यैः (SDGs) अपि सम्बद्धः आसीत्। विशेषतः SDG–3 (उत्तमस्वास्थ्यं कल्याणं च), SDG–4 (गुणवत्तापूर्णा शिक्षा), SDG–13 (जलवायुपरिवर्तनस्य प्रति कार्यम्) तथा SDG–16 (शान्तिः, न्यायः, सुदृढाः संस्थाः) इत्येषां लक्ष्याणां पूर्तये विद्यार्थिषु सेवाभावः, नेतृत्वक्षमता, स्वास्थ्यजागरूकता, पर्यावरणसंरक्षणं तथा सामाजिक-उत्तरदायित्वस्य भावना प्रबला कृता।
सम्पूर्णः समारोहः प्रेरणादायकवातावरणे सम्पन्नः। विद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः स्थापना विद्यार्थिनां सेवा, अनुशासनम्, नेतृत्वम्, मानवता तथा राष्ट्रसेवायाः भावनां दृढीकर्तुं महत्त्वपूर्णा प्रेरणादायिनी च सिद्धा।

You Might Also Like

नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन महाराष्ट्रस्य दुष्कालपीडितक्षेत्राणां सर्वेषां छात्राणां परीक्षाशुल्क-विमुक्तेः निर्देशाः निर्गताः

Gaggal Airport – तन्त्वारोपणाय (तारबन्दीकरणाय) १.१६ कोटिरूप्यकाणि विमुक्तानि, गगल-विमानपत्तन-विस्तारः प्राप्तवान् गतिम्, लोकनिर्माणविभागः करिष्यति कार्यम्

बालिका संस्कृतविद्यापीठे नवरात्रिमहोत्सवः भजन-कीर्तनैः समायोजितः

सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article एनडीए-संसदीयदलस्य साप्ताहिक-उपवेशनम्,
Next Article मानसूने मण्डलप्रशासनं तीव्रसतर्कतायां स्थापयितुं निर्देशाः, मुख्यसचिवः अधिकारिभिः सह कृतवान् उपवेशनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?