By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्

डॉ मनोज शैल
Last updated: 2026/07/20 at 9:17 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्

हिमसंस्कृतवार्ता: — नवदेहली।

डेंगु-रोगस्य (डेंगू) प्रथमस्य स्वदेशी-सूच्यौषधस्य विपण्याम् अवतारणाय भारतस्य औषधि-महानियन्त्रकस्य (DCGI) स्वीकृति: प्राप्ता अस्ति। ‘क्यूडेंगा’ (Qdenga) नाम्ना एतद् सूच्यौषधं ‘टाकेडा बायोफार्मास्युटिकल्स इण्डिया’ इति कम्पन्या निर्मितः अस्ति। डीसीजीआई-संस्थया नूतन-औषधि-नैदानिक-परीक्षण (NDCT) नियम-२०१९ इत्यस्य ‘सीटी-२०’ (CT-20) प्रावधानस्य अन्तर्गतं चतुर्तः ६० वर्षपरिमित-आयुयुक्तेषु जनेषु डेंगु-निवारणाय अस्य सूच्यौषधस्य विपण्यां प्रवेशाय अनुमतिः प्रदत्ता। कम्पन्या सोमवासरे ज्ञापितं यत् क्यूडेंगा-टीकायै लब्धा इयं स्वीकृति: देशे डेंगु-रोगस्य प्रतिरोधात्मक-व्यवस्थायाः सुदृढीकरणाय एकं महत्त्वपूर्णं पदं वर्तते। देशे स्वीकृतिं प्राप्तकर्तृ डेंगु-रोगस्य एतद् प्रथमं सूच्यौषधमस्ति। कस्मैचित् पूर्वं डेंगु-सङ्क्रमणं अभवत् वा न, तथापि सः एतं ग्रहीतुं शक्नोति।

डेंगु-रोगः मशकैः प्रसरन् एकः विषाणुजनितः (वायरल) व्याधिः अस्ति। विश्वस्य १२५ तः अधिकेषु देशेषु एषः सार्वजनिक-स्वास्थ्यस्य कृते गम्भीरा समस्या संजाता। विश्वे डेंगु-रोगस्य आहत्य प्रकरणानां प्रायः एकस्तृतीयांशः (एक-तिहाई) भागः केवलं भारते एव वर्तते। वर्षे २०२५ मध्ये देशे डेंगु-रोगस्य १.१३ लक्षात् (1.13 लाख) अधिकाः प्रकरणाः पञ्जीकृताः (दर्ज) आसन्। अनुमानम् अस्ति यत् एतस्मात् अपि अधिकेषु प्रकरणेषु रोगस्य परिचयं न भवितुं शक्नोति।

टाकेडा-कम्पन्यां ‘इण्टरकौण्टीनेण्टल मार्केट्स’ इत्यस्य प्रमुखेन महेन्द्रनायकेन प्रोक्तं यत्, “क्यूडेंगा-टीकस्य सप्तानां वर्षाणां नवीनतम-विवरणानि दर्शयन्ति यत् एतद् सूच्यौषधं डेंगु-सङ्क्रमणात् तथा च डेंगु-कारणात् चिकित्सालये प्रवेशस्य सङ्कटात् निरन्तरं सुरक्षां ददाति। एषः डेंगु-रोगस्य चतुर्षु अपि विषाणु-सीरोटाईपेषु (Serotypes) प्रभावी वर्तते। समाजस्य स्वास्थ्यव्यवस्थायाश्च कृते इयम् एका प्रमुखा उपलब्धिः अस्ति। वर्षे २०२२ मध्ये शुभारम्भात् परं क्यूडेंगा-टीकायै ४३ देशेषु स्वीकृति: प्राप्ता अस्ति समग्रविश्वे च अस्य ३.२ कोटितः अधिकाः मात्राः (डोज) वितरिताः सन्ति। भारते प्राप्ता इयं स्वीकृति: डेंगु-प्रतिरोधस्य सुदृढीकरणाय एकं प्रमुखं पदम् अस्ति।”

 

कम्पन्यां दक्षिण-पूर्व-एशिया तथा च इण्डिया-क्लस्टर इत्यस्य महाप्रबन्धकेन पीटर-स्ट्राइबलेन कथितं यत्, “डेंगु-रोगः केवलं कस्यापि एकस्य देशस्य समस्या नास्ति, अपितु एषः अस्मिन् सम्पूर्णे क्षेत्रे सम्मुखीभूता एका समानाह्वानं वर्तते, यस्य निस्तारणाया सीमातः परे गत्वा सहयोगस्य आवश्यकता अस्ति। टाकेडा-कम्पनी दक्षिण-दक्षिण-पूर्व-एशिया देशेषु सर्वकारैः, सार्वजनिक-स्वास्थ्य-संस्थाभिः, स्वास्थ्य-विशेषज्ञैः अन्यैः च सहभागिभिः (साझेदारों) साकं मिलित्वा कार्यं कर्तुं कटिबद्धा अस्ति।”

 

तृतीयचरणस्य नैदानिक-परीक्षणस्य योगदानम्

भारते क्यूडेंगा-सूच्यौषधस्य स्वीकृति-प्राप्तौ अत्र विहितस्य तृतीयचरणस्य (Phase-3) नैदानिक-परीक्षणस्य (Clinical Trial) विवरणानाम् अपि महत् योगदानम् अस्ति। चतुर्तः ६० वर्षपरिमित-आयुवर्गीयेषु भारतीय-प्रतिभागिषु विहितेन अध्ययनेन ज्ञातं यत् स्वस्थ-वयस्काः, किशोराः, बालकाश्च सरलतया क्यूडेंगा-मात्रां पचितवन्तः (सहनं कृतवन्तः)। इयं सूच्यौषधिः (वैक्सीन) ०.५ मिलीलीटर परिमाणे त्वचायाः अधः (सबक्यूटेनियस) दीयते। अस्य टीकीकरणं द्वाभ्यां मात्राभ्यां (two doses) पूर्णं भवति द्वयोः मात्रायोः मध्ये च त्रयाणां मासानाम् अन्तरालं (अंतर) रक्ष्यते।

विश्वस्वास्थ्यसङ्गटनेन (WHO) डेंगु-प्रभावितेषु क्षेत्रेषु क्यूडेंगा-सूच्यौषधस्य उपयोगस्य अनुशंसा कृता अस्ति। सङ्गटनेन उच्च-सङ्क्रमण-युक्तेषु क्षेत्रेषु सार्वजनिक-टीकीकरण-कार्यक्रमेषु अस्य समावेशनस्य अपि समर्थनं विहितम्।

You Might Also Like

बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्

एनडीए-संसदीयदलस्य साप्ताहिक-उपवेशनम्,

सर्वोच्चन्यायालयः अयोध्यामन्दिरविषये राजनीतिकीकरणं न कर्तुं संतर्जना अयच्छत्

होर्मुज-स्ट्रेट (Strait of Hormuz) क्षेत्रे प्राणांस्त्यक्तवतः आदित्यशर्मणः परिजनैः मुख्यमंत्रिणा सह मेलनम्, न्यायस्य याचना कृता

KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता
Next Article KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?