By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्
हिमाचलवार्ता

हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्

डॉ मनोज शैल
Last updated: 2026/08/31 at 9:18 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

नेपालदेशे सञ्जाता भीषणत्रासदी हिमालयस्य उन्नतशिखरेषु स्थितानां हिमानी-सरोवराणां (ग्लेशियर-झीलों) सङ्कटं पुनः पुरतः आनीतवती। हिमाचलप्रदेशे जनजातीय-मण्डले लाहौल-स्पीतौ स्थितः ‘घेपन-घाट-हिमानी-सरोवरः’ अस्याः चिन्तायाः प्रमुखं केन्द्रं वर्तते। उपग्रह-अध्ययनानुसारं १९८९ तमे वर्षे ३६.४९ हेक्टेयर-परिमित-क्षेत्रे विस्तृतः अयं सरोवरः २०२२ तमे वर्षे वर्धित्वा १०१.३० हेक्टेयर-परिमितः सञ्जातः। अर्थात् ३३ वर्षेषु अस्य क्षेत्रफलम् प्रायः १७८ प्रतिशतं वर्धितम् तथा च सरोवरः प्रायः त्रिगुणितः जातः। अयं सरोवरः प्रायः ४,०६८ मीटर्-औन्नत्ये स्थितः अस्ति। अस्य दैर्घ्यं २.४६४ किलोमीटर् तथा च अधिकाधिकविस्तारः प्रायः ६२५ मीटर् अस्ति। सरोवरे प्रायः ३५.०८ दशलक्ष-घनमीटर्-परिमितं जलं भवितुम् अनुमानितम्। वैज्ञानिकानां मते हिमानीनां द्रुतगत्या विगलनेन (पिघलने) तथा परिवर्तनशील-ऋतुना सह सरोवरस्य वर्धमानः आकारः चिन्तायाः विषयः अस्ति।

घेपन-घाट-सरोवरं सम्बन्ध्य महती चिन्ता अस्य सम्भावित-विदारणेन उत्पद्यमानस्य ‘हिमानी-सरोवर-विस्फोट-जलप्लावनस्य’ वर्तते। राष्ट्रीय-सुदूर-संवेदन-केन्द्रेण कृते सङ्कट-मूल्याङ्कने सरोवरात् निःसरतः जलप्लावनस्य विविधानां सम्भाव्य-परिदृश्यानाम् अध्ययनं कृतम्। मूल्याङ्कनानुसारं ‘सिस्सू’-क्षेत्रं सर्वाधिक-संवेदनशील-क्षेत्रेषु अन्यतमं वर्तते, तथा च निकृष्टतमायां स्थितौ सरोवर-विदारणस्य प्रायः २१ निमेषेषु जलप्लावनस्य तरङ्गाः सिस्सू-स्थानं प्राप्तुं शक्नुवन्ति। जलस्य वेगः प्रायः प्रतिघण्टां ४३ किलोमीटर् तथा च जलप्लावनस्य गम्भीरता २० मीटर् पर्यन्तं भवितुम् अनुमानिता। जलेन सह शिलाखण्डानां, बृहत्प्रस्तराणां, हिमस्य तथा अवकरस्य (मलबे) आगमनेन हानिः वर्धितुं शक्नोति। अध्ययनानुसारं सम्भावित-जलप्लावेन ३४ बस्तयः, प्रायः २०४ हेक्टेयर-परिमितिः कृषियोग्या भूमिः, ५७ सेतवः तथा प्रायः १०६ किलोमीटर्-दीर्घः मार्गः प्रभाविताः भवितुं शक्नुवन्ति। अस्य प्रभावः चन्द्रभागा-नद्याः (चिनाब) मार्गेण हिमाचलप्रदेशात् अग्रे जम्मू-कश्मीरं यावत् प्राप्तुम् आशङ्क्यते।

 

वैज्ञानिक-मूल्याङ्कनमाध्यमेन क्रियते निरीक्षणम्

हिमाचलप्रदेशे संवेदनशील-हिमानी-सरोवराणां निरीक्षणम् उपग्रह-चित्राणां, सुदूर-संवेदनस्य (रिमोट सेन्सिंग) तथा वैज्ञानिक-मूल्याङ्कनस्य माध्यमेन क्रियमाणम् अस्ति। घेपन-घाट-सरोवराय सम्भावित-जलप्लावेन प्रभावयुक्तानां क्षेत्राणां मानचित्राणि अपि सज्जीकृतानि। केन्द्रसर्वकारेण हिमानी-सरोवराणां सङ्कटं न्यूनीकर्तुं निरीक्षण-प्रारम्भिक-सचेतना-व्यवस्थायाः उपरि कार्यं प्रारब्धम्। घेपन-सरोवरे सम्प्रति पूर्णा प्राक्-सूचना-प्रणाली (अर्ली वार्निङ्ग् सिस्टम्) न स्थापिता अस्ति। तथापि ‘सी-डैक’ द्वारा विकसिता एका प्रायोगिकी (Pilot) सचेतना-प्रणाली सिस्सू-स्थानस्य कृत्रिम-सरोवरस्य समीपे परीक्षण-स्तरे वर्तते। अत्र तापमानस्य, वायोः, वातभारस्य (Pressure), वृष्टेः च स्थितीनां निरीक्षणेन सह छायाचित्रक-उपग्रह-आधारित-चेतावनी-व्यवस्थायाः परीक्षणं क्रियमाणम् अस्ति।

You Might Also Like

वैद्यकीय-महाविद्यालयेषु ५०० कोटि-मूल्यस्य यन्त्राणि, ३०० वैद्यकीय-अधिकारिणः तथा ३५० विशेषज्ञ-वैद्याः नियुक्ताः भविष्यन्ति – मुख्यमंत्री सुक्खुः

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

जसवां-प्रागपुरे मुख्यमन्त्रिणः महत्त्वपूर्णाः घोषणाः, डाडासीबायां एस.डी.एम.-कार्यालय:, कस्बा-कोटलायां सामुदायिक-स्वास्थ्यकेन्द्रम्

ड्रोन-सर्वेक्षणं कृत्वा सीमावेष्टनं करिष्यति लोकनिर्माणविभागः, अधुना धरातले भविष्यति काङ्गडा-विमानपत्तनस्य विस्तारकार्यं, सज्जता तीव्रा

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article *गाजोलमहाविद्यालये विश्वसंस्कृतदिवसोत्सवः सम्पन्नः*
Next Article वैद्यकीय-महाविद्यालयेषु ५०० कोटि-मूल्यस्य यन्त्राणि, ३०० वैद्यकीय-अधिकारिणः तथा ३५० विशेषज्ञ-वैद्याः नियुक्ताः भविष्यन्ति – मुख्यमंत्री सुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?