हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
नेपालदेशे सञ्जाता भीषणत्रासदी हिमालयस्य उन्नतशिखरेषु स्थितानां हिमानी-सरोवराणां (ग्लेशियर-झीलों) सङ्कटं पुनः पुरतः आनीतवती। हिमाचलप्रदेशे जनजातीय-मण्डले लाहौल-स्पीतौ स्थितः ‘घेपन-घाट-हिमानी-सरोवरः’ अस्याः चिन्तायाः प्रमुखं केन्द्रं वर्तते। उपग्रह-अध्ययनानुसारं १९८९ तमे वर्षे ३६.४९ हेक्टेयर-परिमित-क्षेत्रे विस्तृतः अयं सरोवरः २०२२ तमे वर्षे वर्धित्वा १०१.३० हेक्टेयर-परिमितः सञ्जातः। अर्थात् ३३ वर्षेषु अस्य क्षेत्रफलम् प्रायः १७८ प्रतिशतं वर्धितम् तथा च सरोवरः प्रायः त्रिगुणितः जातः। अयं सरोवरः प्रायः ४,०६८ मीटर्-औन्नत्ये स्थितः अस्ति। अस्य दैर्घ्यं २.४६४ किलोमीटर् तथा च अधिकाधिकविस्तारः प्रायः ६२५ मीटर् अस्ति। सरोवरे प्रायः ३५.०८ दशलक्ष-घनमीटर्-परिमितं जलं भवितुम् अनुमानितम्। वैज्ञानिकानां मते हिमानीनां द्रुतगत्या विगलनेन (पिघलने) तथा परिवर्तनशील-ऋतुना सह सरोवरस्य वर्धमानः आकारः चिन्तायाः विषयः अस्ति।
घेपन-घाट-सरोवरं सम्बन्ध्य महती चिन्ता अस्य सम्भावित-विदारणेन उत्पद्यमानस्य ‘हिमानी-सरोवर-विस्फोट-जलप्लावनस्य’ वर्तते। राष्ट्रीय-सुदूर-संवेदन-केन्द्रेण कृते सङ्कट-मूल्याङ्कने सरोवरात् निःसरतः जलप्लावनस्य विविधानां सम्भाव्य-परिदृश्यानाम् अध्ययनं कृतम्। मूल्याङ्कनानुसारं ‘सिस्सू’-क्षेत्रं सर्वाधिक-संवेदनशील-क्षेत्रेषु अन्यतमं वर्तते, तथा च निकृष्टतमायां स्थितौ सरोवर-विदारणस्य प्रायः २१ निमेषेषु जलप्लावनस्य तरङ्गाः सिस्सू-स्थानं प्राप्तुं शक्नुवन्ति। जलस्य वेगः प्रायः प्रतिघण्टां ४३ किलोमीटर् तथा च जलप्लावनस्य गम्भीरता २० मीटर् पर्यन्तं भवितुम् अनुमानिता। जलेन सह शिलाखण्डानां, बृहत्प्रस्तराणां, हिमस्य तथा अवकरस्य (मलबे) आगमनेन हानिः वर्धितुं शक्नोति। अध्ययनानुसारं सम्भावित-जलप्लावेन ३४ बस्तयः, प्रायः २०४ हेक्टेयर-परिमितिः कृषियोग्या भूमिः, ५७ सेतवः तथा प्रायः १०६ किलोमीटर्-दीर्घः मार्गः प्रभाविताः भवितुं शक्नुवन्ति। अस्य प्रभावः चन्द्रभागा-नद्याः (चिनाब) मार्गेण हिमाचलप्रदेशात् अग्रे जम्मू-कश्मीरं यावत् प्राप्तुम् आशङ्क्यते।
वैज्ञानिक-मूल्याङ्कनमाध्यमेन क्रियते निरीक्षणम्
हिमाचलप्रदेशे संवेदनशील-हिमानी-सरोवराणां निरीक्षणम् उपग्रह-चित्राणां, सुदूर-संवेदनस्य (रिमोट सेन्सिंग) तथा वैज्ञानिक-मूल्याङ्कनस्य माध्यमेन क्रियमाणम् अस्ति। घेपन-घाट-सरोवराय सम्भावित-जलप्लावेन प्रभावयुक्तानां क्षेत्राणां मानचित्राणि अपि सज्जीकृतानि। केन्द्रसर्वकारेण हिमानी-सरोवराणां सङ्कटं न्यूनीकर्तुं निरीक्षण-प्रारम्भिक-सचेतना-व्यवस्थायाः उपरि कार्यं प्रारब्धम्। घेपन-सरोवरे सम्प्रति पूर्णा प्राक्-सूचना-प्रणाली (अर्ली वार्निङ्ग् सिस्टम्) न स्थापिता अस्ति। तथापि ‘सी-डैक’ द्वारा विकसिता एका प्रायोगिकी (Pilot) सचेतना-प्रणाली सिस्सू-स्थानस्य कृत्रिम-सरोवरस्य समीपे परीक्षण-स्तरे वर्तते। अत्र तापमानस्य, वायोः, वातभारस्य (Pressure), वृष्टेः च स्थितीनां निरीक्षणेन सह छायाचित्रक-उपग्रह-आधारित-चेतावनी-व्यवस्थायाः परीक्षणं क्रियमाणम् अस्ति।
