By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः
हिमाचलवार्ताधर्मसंस्कृतिः

हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः

डॉ.अमनदीप शर्मा
Last updated: 2026/07/13 at 9:01 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः
हिमसंस्कृतवार्ता:- रूपेन्द्र वशिष्ठ:। हमटायाः पुण्यभूमौ एकं दिव्यम् अलौकिकं च दृश्यं साकारमभवत्। चतुर्विंशतिवर्षाणां दीर्घान्तरालानन्तरं श्रद्धाकेन्द्रभूतयोः भगवतः श्रृङ्गिऋषिमहाराजस्य, महातपस्विनः महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः। अस्य ऐतिहासिकस्य आध्यात्मिकस्य च अस्य महोत्सवस्साय साक्षीभवितुं पञ्चकोठीक्षेत्रात्, चतुर्विंशतिकोठी-सराजक्षेत्राच्च सहस्रशः श्रद्धालवः समागताः।
पौराणिकप्रसङ्गः- आसुरीशक्तीनां विनाशः धर्मस्य च प्रतिष्ठापनम्
पुरातनजनश्रुतिषु प्रसिद्धम् अस्ति यत् आदिकाले अस्यां उपत्यकायाम् आसुरीशक्तीनाम् अत्याचारः वर्धितः। तदा परमसिद्धौ महर्षिः श्रृङ्गिः- महर्षिः जमदग्निः अनयो: स्वीयतपोबल-मन्त्रशक्तिभ्यां ताः दुष्टशक्तीः समूलं विनाश्य धर्मस्य, सत्यस्य, लोककल्याणस्य च प्रतिष्ठापनम् अकुरुताम्। तस्यैव दिव्यविजयस्य स्मृत्यर्थम् अद्यापि भगवान् श्रृङ्गिऋषिः स्वीयया अर्धाङ्गिन्या माता शान्तया सह एतां पवित्रां देवयात्रां निर्वहति।
हमटा (मनाली) देवकलायाः आद्युत्पत्तिस्थलम् तथा ‘देवपरामर्शस्य’ महत्त्वम्
लोकपरम्परानुसारं महर्षेः जमदग्नेः देवकलायाः आद्युत्पत्तिस्थलं हमटा एव मन्यते। अत्र अवतीर्य ततः सा देवकला मलाणा-प्रदेशं प्रति प्रस्थिता इति विश्वासः। अतः भगवान् श्रृङ्गिऋषिमहाराजस्य कृते हमटा परमपवित्रं विशेषमहत्त्वयुक्तं च स्थलम् अस्ति। अत्र आगत्य भगवान् स्वगुरमाध्यमेन (देववक्ता) देवपरामर्शं भविष्यवाणीं च प्रददाति। तेन क्षेत्रस्य सुखसमृद्धिः, प्रकृतिसंरक्षणम्, धर्मपालनं समाजस्य च हिताय आवश्यकं मार्गदर्शनं प्रदीयते।
अयं दिव्य-महासमागमः केवलं धार्मिकपरम्परायाः प्रतीकः न, अपि तु हिमाचलप्रदेशस्य समृद्धदेवसंस्कृतेः, लोकश्रद्धायाः सनातनपरम्परायाश्च जीवन्मानं प्रतीकम् अस्ति।

You Might Also Like

‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,

SHRIKHAND YATRA – श्रीखण्डयात्रां प्रति पूर्णप्रतिबन्धः, धारा १६३ (163) प्रवृत्ता इति सूचना

HP GOVT CBSE SCHOOLS – सी.बी.एस.ई. मानकानुसारं भविष्यन्ति शिक्षकाणां नियुक्तयः, पदानां सृजन-युक्तिकरणाय स्वीकृति:

होटल-विपणि (मॉल)-चिकित्सालयेषु ‘हरितभवनसंहिता प्रवृत्ताः, उल्लङ्घने दण्डशुल्कम् , संशोधिताः नियमाः प्रसारिताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article ‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा
Next Article कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने भारते राष्ट्रीयशोकः घोषितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?