वैश्विक-शान्ति-अभियानेषु भारतस्य दीर्घकालिक-योगदानस्य महती मान्यता
वैश्विक-शान्ति-अभियानेषु भारतस्य दीर्घकालिक-योगदानं प्रति एका महती मान्यता प्राप्ता। काङ्गो-लोकतान्त्रिक-प्रजातन्त्रस्य (डीआरसी) स्थायि-प्रचालन-स्थाने ‘साके’ इत्यत्र आयोजिते एकस्मिन् औपचारिक-पदक-परेड-समारोहे संयुक्तराष्ट्रस्य अधीने सेवारताः ६५१ (षट्शत-एकपञ्चाशत्) भारतीयसेनायाः कर्मचारिणः प्रतिष्ठित-संयुक्तराष्ट्र-पदकेन समादृताः। एतानि पदकानि ह्यः आयोजिते एकस्मिन् समारोहे प्रत्तानि, यस्मिन् संयुक्तराष्ट्र-शान्ति-अभियानानां अन्तर्गतं भारतीयदलस्य व्यावसायिकता, प्रचालन-उत्कृष्टता, समर्पितसेवा च सम्मानिता अभवत्। अस्मिन् कार्यक्रमे काङ्गो-देशे संयुक्तराष्ट्र-सङ्घटन-स्थिरीकरण-मिशन – ‘मोनुस्को’ (MONUSCO) इत्यस्य वरिष्ठाः अधिकारिणः, बल-मुख्यालयस्य (फ़ोर्स हेडक्वार्टर) प्रतिनिधयः, सैन्य-कमाण्डराः, अन्ये च विशिष्टाः अतिथयः उपस्थिताः आसन्।
वैश्विक-शान्ति-अभियानेषु भारतस्य दीर्घकालिक-योगदानस्य महती मान्यता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
