By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति
हिमाचलवार्ता

नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति

डॉ मनोज शैल
Last updated: 2026/07/01 at 9:53 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

नगरनिकायेषु अधुना सर्वाणि वित्तीय-आदान-प्रदानानि डिजिटल-माध्यमेन भविष्यन्ति

प्रदेशसर्वकारेण दत्ताः निर्देशाः, प्रथमा अगस्त-दिनाङ्कतः ‘उपयोग’ (UPOYG) पटलोपरि व्यवहारप्रविष्टिः अनिवार्या

हिमसंस्कृतवार्ता: — हिमाचलसर्वकारेण राज्यस्य सर्वेषु नगरनिगमेषु, नगरपरिषत्सु, नगरपञ्चायतेषु च ‘उपयोग’ अर्थात् ‘अर्बन प्लेटफार्म फॉर डिलीवरी ऑफ ऑनलाइन गवर्नेंस’ (UPOYG) पटल-माध्यमेन नगरसेवाः वित्तीयप्रबन्धनं च अनिवार्यं कर्तुं निर्णयः विहितः। नगरविकासविभागेन प्रसारितायाः अधिसूचनायाः अनुसारं प्रथम अगस्त-दिनाङ्कतः सर्वाणि वित्तीय-आदान-प्रदानानि लेखा च केवलम् ‘उपयोग’ पटलस्य (प्लेटफॉर्म) माध्यमेन एव विधास्यन्ते। सर्वकारेण अयं निर्णयः भारतसर्वकारस्य ‘राष्ट्रियमहानगरीय-डिजिटल-मिशन’ (नेशनल अर्बन डिजिटल मिशन) तथा च आवास-नगरकार्यमन्त्रालयस्य निर्देशानुसारं गृहीतः।

अस्य उद्देश्यं नगरनिकायानां वित्तीयप्रबन्धने पारदर्शितां, उत्तरदायित्वं, दक्षतां च वर्धयितुम् अस्ति। अधिसूचनायाः अनुसारं बजट-निर्माणं, विधेयक-प्रसंस्रकणं (बिल प्रोसेसिंग), सामान्य-खाता (जनरल लेजर), रसीद-पत्राणि, परिसम्पत्तिप्रबन्धनं, बैङ्क-मिलनं तथा च अन्यानि सर्वाणि लेखासम्बद्धानि कार्याणि ‘राष्ट्रियनगरलेखापुस्तिका’ (नेशनल अर्बन म्युनिसिपल अकाउंट्स मैनुअल) एवं ‘हिमाचलप्रदेशनगरलेखापुस्तिका-२०२५’ इत्यस्याः मानकसंगत्यनुसारम् ‘उपयोग’ पोर्टल्-उपरि एव विधास्यन्ते। सर्वकारेण स्पष्टीकृतं यत् प्रथमा अगस्त-दिनाङ्कतः पुरातनाः अभिलेखाः (लीगेसी डेटा) सर्वाणि नूतनानि वित्तीय-कार्याणि च डिजिटलरूपेण ‘उपयोग’ मञ्चे अङ्कयितुं अनिवार्याणि भविष्यन्ति।

 

सम्पत्तिकर-व्यापारलाइसेन्स् समेतानां नागरिकसेवानामपि निर्देशः

एतदतिरिच्य सम्पत्तिकरः, अवकरशुल्कं (कूड़ा शुल्क), व्यापारलाइसेन्स् (व्यापार अनुज्ञप्तिः) अन्याः नागरिकसेवाः अपि ‘उपयोग’ इत्यस्य लेखा-मॉड्यूल् (अकाउंट्स मॉड्यूल) इत्यनेन सह सम्बद्धाः करिष्यन्ते, येन राजस्वस्य आयव्ययपूर्णविवरणं पूर्णरूपेण ऑनलाइन पारदर्शि च भवितुं शक्नुयात्। अधिसूचनायां नगरनिगमानां आयुक्ताः, नगरपरिषदां नगरपञ्चायतानां च कार्यवाहकाधिकारिणः सचिवाश्च ‘उपयोग’ पटलस्य शतप्रतिशतं (१००%) प्रयोगं, समयानुसारं तथ्याङ्कप्रविष्टिं (डाटा एंट्री), ऑनलाइन-राजस्वसङ्ग्रहं वित्तीयविवरणनिर्माणं च प्रति उत्तरदायिनः कृताः सन्ति। अनेन सहैव सम्बद्धैः नगर-स्थानीय-निकायैः पोर्टल्-सक्रियीकरणात् (लाइव करने से) पूर्वं ‘यूजर एक्सेप्टेंस टेस्टिंग’ (UAT) प्रमाणपत्रं नगरविकासनिदेशकाय प्रदातव्यं भविष्यति। सर्वकारेण एतदपि स्पष्टीकृतं यत् ‘उपयोग’ पटल-तः प्रसारित-क्रियमाणानि धनप्रदान-वाउचर्-पत्राणि, रसीद-पत्राणि वित्तीयविवरणानि च अंकेक्षणाय (ऑडिट के लिए) अधिकृतानि प्रामाणिकानि च प्रलेखानि (दस्तावेज) मन्स्यन्ते।

You Might Also Like

जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः

HP WEATHER – लाहौले चम्बायां च त्रिषु स्थानेषु मेघविस्फोटः, मण्ड्यां शैलात् पतितशिलाघातेन महिलायाः मृत्युः

कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, HPCM, News Headlines, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जागरूकः नागरिकः समर्पितः चिकित्सकश्च एव कुरुतः स्वस्थसमाजस्य परिचयम्, चिकित्सक-दिवसे (‘डॉक्टर्स् डे’) आई.एम.ए. (IMA) संस्थया दत्तः सङ्देशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?