By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्
संस्कृतगतिविधयःदिवसविशेषःशिक्षावार्ता:

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/06/22 at 3:01 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोजपालपरिसरे आयोजिते द्वादशेऽन्तर्राष्ट्रिययोगमहोत्सवे एकादशपरिसराणां तथा च सप्तादर्शसंस्कृतमहाविद्यालयानां प्रतिभागिनो भागग्रहणमकुर्वन्। तस्मिन् महोत्सवे झारखण्डराज्यान्तर्गतस्य देवघरनगरस्थस्य लक्ष्मीदेवीशराफादर्शसंस्कृतमहाविद्यालयस्य पञ्चच्छात्रा भागमगृह्णन्। ते च पञ्चच्छात्राः पाण्डेयाशुतोषः पाण्डेयगोपालः पाण्डेयकुन्दनकुमारः पाण्डेयनिशुकान्तस्तथा च तिवारिसुबलकुमारश्चात्र प्रतिभागिनोऽभवन्।
षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे षष्ठमासस्य विंशतितमे दिनाङ्के सम्पन्नायामेकलयोगप्रतियोगितायां लक्ष्मीदेवीशराफादर्शसंस्कृतमहाविद्यालयादागतेषु पञ्चसु छात्रेषु छात्रः पाण्डेयनिशुकान्त उत्तमं प्रदर्शनमकरोत्। योगप्रतियोगिताया अनन्तरं रङ्गवल्लीप्रतियोगिता योगसूत्रकण्ठपाठप्रतियोगिता तथा च सामूहिकयोगप्रतियोगिता चेत्यन्याः प्रतियोगिता अप्यभवन्।
तदनन्तरमेकविंशतितमे दिनाङ्के सर्वे प्रतिभागिनोऽन्तर्जालमाध्यमेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतेःश्रीनिवासवरखेडीवर्यस्ययाशीर्वचनमशृण्वन्। आशीर्वचनानन्तरं योगाभ्यासो वाद्यवृन्दप्रस्तुतिश्चाभवताम्। तत्र हरिप्रसादपौडियालस्य वंशीवादनं श्रुत्वा सर्वे जना मन्त्रमुग्धा अभवन्। ततः परं डॉ द्विवेदिसञ्जयस्तस्य सहयोगिनश्च मधुरां सङ्गीतप्रस्तुतिमकुर्वन्। महोत्सवस्य समापनकार्यक्रमे बहवोऽतिथय आचार्या आचार्याश्च निर्देशकाः संयोजकाः कार्यकर्तारः कार्यकर्त्यश्च भागमगृह्णन्॥

आशुतोष पाण्डेयः, देवघरः

You Might Also Like

महर्षि-महेश-योगी-वैदिकविश्वविद्यालये द्वादशतम-अन्तर्राष्ट्रीय-योग-दिवसस्य भव्यः कार्यक्रमः सुसम्पन्नः

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् वर्यः योगस्य बहुआयामीलाभेषु बलं दत्तवान्

योगविषये किञ्चिच्चिन्तनम्-नारदोपाध्यायः

हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः

गाजोल-महाविद्यालये महाकविकालिदासजयन्ती समारोहेण पालिता

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article महर्षि-महेश-योगी-वैदिकविश्वविद्यालये द्वादशतम-अन्तर्राष्ट्रीय-योग-दिवसस्य भव्यः कार्यक्रमः सुसम्पन्नः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?