By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्रिणा नरेन्द्रमोदिना यु्वसम्मेलनं सम्बोधितम्, १५ लक्षलाभार्थिनां वित्तकोषसंख्यासु २४०० कोटिरूप्यकाणां प्रोत्साहनराशिः प्रेषिता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्रिणा नरेन्द्रमोदिना यु्वसम्मेलनं सम्बोधितम्, १५ लक्षलाभार्थिनां वित्तकोषसंख्यासु २४०० कोटिरूप्यकाणां प्रोत्साहनराशिः प्रेषिता
राष्ट्रीयवार्ताः

प्रधानमन्त्रिणा नरेन्द्रमोदिना यु्वसम्मेलनं सम्बोधितम्, १५ लक्षलाभार्थिनां वित्तकोषसंख्यासु २४०० कोटिरूप्यकाणां प्रोत्साहनराशिः प्रेषिता

डॉ.अमनदीप शर्मा
Last updated: 2026/06/20 at 5:23 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

प्रधानमन्त्रिणा नरेन्द्रमोदिना यु्वसम्मेलनं सम्बोधितम्, १५ लक्षलाभार्थिनां वित्तकोषसंख्यासु २४०० कोटिरूप्यकाणां प्रोत्साहनराशिः प्रेषिता
हिमसंस्कृतवार्ता: — प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन शुक्रवासरे नवदेहल्याः विज्ञानभवने युव-सम्मेलनं सम्बोधितम्। यत्र विकसितभारत-रोजगार-योजनायाः अन्तर्गतं १५ लक्षलाभार्थिनां वित्तकोषसंख्यासु २ सहस्र ४०० (२४००) कोटिरूप्यकाणां प्रोत्साहनराशिः विमुक्ता। अस्मिन् अन्तरे, पी.एम. मोदीमहोदयेन युवभिः सह प्रत्यक्षसंवादः अपि कृतः।
विश्वं करोति भारतस्य युवाशक्तेः चर्चां
प्रधानमंत्री मोदीमहोदयः अवदत्, ‘अद्य अत्र अस्मात् कार्यक्रमात् सम्बद्देषु युवासहभागिषु महान् भारतस्य उज्ज्वलभवितव्यस्य चित्रं दृश्यमानम् अस्ति। अहम् अधुना एव कतिपयघण्टाभ्यः पूर्वं फ्रान्स-स्लोवाकियादेशयोः यात्रातः प्रत्यागतोऽस्मि। जी-७ (G-7) सम्मेलने विकसितदेशानां दिग्गजनेतृभिः सह अमिलम्। विश्वम् अद्य भारतस्य युवाशक्तेः चर्चां करोति। भारतस्य प्रतिभायाः (टैलेंट), कौशलस्य (स्किल), क्षमतायाः (पोटेंशियल) च चर्चा सुदूरेषु भवन्ती अस्ति। विश्वं भारतस्य यूनां क्षमतां सम्यक् परिचिनोति। तादृशे समये अस्माकं प्रयासः अस्ति यत् भारतस्य प्रत्येकं युवा स्वक्षमताम् अवसरे परिवर्तयितुं शक्नुयात्, अनयैव धिया पी.एम. विकसितभारत-रोजगार-योजनायाः आरम्भः अभवत्।’
प्रधानमंत्री नरेन्द्रमोदी अकथयत् यत् “प्रधानमंत्री विकसितभारत-रोजगार-योजना, इयं रोजगारयोजनायाः बहु अग्रे गत्वा प्रथमसेवावृत्तिं प्राप्नुवतां यूनां स्वप्नेभ्यः शक्तिप्रदात्री योजना अस्ति। इयं युवानां उद्योगानां च मध्ये एकं सुदृढं सेतुं निर्मात्री योजना अस्ति।”
१० लक्षयूनां प्राप्तं प्रोत्साहनम्
प्रधानमन्त्रिणा मोदीमहोदयेन अग्रे कथितं यत् प्रधानमन्त्रि-विकसितभारत-रोजगारमेला-योजनायाः सहयोगेन अधुना यावत् प्रायः ७० लक्षमिताः सेवावृत्तयः (जॉब्स) सृष्टाः। प्रायः ७० लक्षमितेभ्यः प्रथमवारं नियुक्तेभ्यः कर्मचारिभ्यः (फर्स्ट टाइम एम्प्लाइज) सामाजिकसुरक्षायाः कवचं अपि प्राप्तम्। प्रायः २० लक्षयूनां स्वकीयप्रथमसेवायाः ६ मासाः पूरिताः अपि सन्ति। अद्य एतेषाम् एव मध्ये प्रायः १० लक्षयुवासाथिभ्यः स्वप्रथमसेवावृत्तौ ६ मासानां पूर्तौ अस्याः योजनायाः लाभार्थित्वेन प्रोत्साहनराशिः (इंसेंटिव) अपि अवाप्ता।
जीविकानिर्माणं राष्ट्रियाभियानं विधातुं लक्ष्यम्
प्रधानमंत्री. मोदीमहोदयः अवदत्, ‘२ सहस्रकोटिरूप्यकेभ्यः (२००० कोटि) अधिका धनराशिः साक्षात् तेषां बैंक-खातेषु प्राप्ता अस्ति। इयं राशिः केवलम् आर्थिकी सहायता नास्ति, एतत् तेषां परिश्रमस्य सम्मानः अस्ति, एतत् तेषां उज्ज्वल भविष्यति देशस्य विश्वासस्य प्रकटीकरणम् अस्ति। एतानि विवरणानि (आंकड़े) अनुभवाश्च ज्ञापयन्ति यत् यदा सर्वकारः, युवा, उद्योगश्च मिलित्वा अग्रे गच्छन्ति, तदा रोजगारनिर्माणस्य गतिः बहुगुणिता भवति। प्रधानमंत्री विकसितभारत-रोजगारमेला-योजना, अस्य एव नवभारतस्य परिचयः अस्ति। एकं तादृशं भारतं, यत्र यूने अवसरः मिलितुं शक्नुयात्, उद्योगाय प्रोत्साहनं प्राप्येत, रोजगारनिर्माणं च एकं राष्ट्रियाभियानं भवेत्।

You Might Also Like

वीवाटेक-2026 सम्मेलने प्रधानमन्त्रिणा मोदीवर्येण भारतं नवोन्मेषस्य प्रौद्योगिक्याः च वैश्विकं केन्द्रं घोषितम्

आतङ्कवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, आपरेशन् सिन्दूर इत्येतानि च निर्णायकानि कार्याणि आसन् – रक्षामंत्री राजनाथसिंहः

भारतीयसेनायाः परिधानं परिवर्तितम्, आङ्ग्लकालस्य चिह्नानि अपाकृतानि, सम्मर्दे (परेड) खड्गः न, अधिकारिणः ‘बंडी’ (अङ्गरक्षकं) धरिष्यन्ति

प्रधानमन्त्री नरेन्द्रमोदीः फ्रान्सदेशस्य राष्ट्रपतिना इमैनुअल मैक्रोनेन सह नीस्-नगरे प्रतिनिधिमण्डलस्तरीयां वार्ता कृतवान्

प्रधानमन्त्री मोदी भारतस्य दीर्घतमावधिं यावत् सेवां कृतवान् निर्वाचितः प्रधानमन्त्री जातः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article क्यार्टूसंस्कृतमहाविद्यालयस्य अक्षय: प्रथमं मनीषा च प्राप्नोत् द्वितीस्थानम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?