By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्
बिहारवार्ताः

कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्

डॉ.अमनदीप शर्मा
Last updated: 2026/06/06 at 8:09 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्
विश्वपर्यावरणदिवसे कुलपतेः नेतृत्वे सञ्चालितम् अभियानम्
हिमसंस्कृतवार्ता, दरभङ्गा, ५ जून। विश्वपर्यावरणदिवसस्य अवसरे कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयमुख्यालये कुलपतेः प्रो. लक्ष्मीनिवासपाण्डेयमहोदयस्य नेतृत्वे शुकवासरे वृक्षारोपणं कृतम्। राष्ट्रीयसेवाोजनायाः (NSS) पर्यावरणमञ्चस्य च संयुक्तावधाने स्नातकोत्तरविभागप्राङ्गणेन सह विविधेषु स्थानेषु पादपाः रोपिताः।
अस्मिन् अवसरे कुलपतिः प्रो. पाण्डेयमहोदयः अवदत् यत् वृक्षाणाम् उपयोगिता मानवसभ्यतायाः आरम्भादेव अस्ति, शास्त्रेषु अपि एतेषां महत्त्वस्य अनेकाः प्रमाणाः प्राप्यन्ते। सः जनान् प्रार्थयन् अकथयत् यत् विशेषोत्सवाणाम् अतिरिक्तम् अपि पित्रोः प्रियजनानां च स्मृतौ वृक्षारोपणस्य परम्परा विकसिता करणीया।
अस्मिन् कार्यक्रमे डीन प्रो. पुरेन्द्रवारिकः, एनएसएस-समन्वयकः डॉ. सुधीरकुमारः, कुलसचिवः डॉ. दिनेशझा, डॉ. पवनझा, डॉ. नवीनझा, डॉ. सुनीलकुमारझा, डॉ. उमेशझा, डॉ. धीरजपाण्डेयः, डॉ. सन्तोषपासवानः, डॉ. रामसेवकझा, डॉ. नरोत्तममिश्रः, गोपालउपाध्यायः च इत्यादयः अनेके अधिकारिणः कर्मचारिणः च उपस्थिताः आसन्।

You Might Also Like

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम्

सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’

शेखपुरामण्डलाय चिकित्सामहाविद्यालयस्योपहारः, त्रिंशद्दिनेषु समस्यायाः अनिस्तारणे अधिकारिणः निलम्बिताः भविष्यन्ति : मुख्यमन्त्री

इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः
Next Article एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?