By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
हिमाचलवार्ता

धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्

डॉ.अमनदीप शर्मा
Last updated: 2026/06/06 at 8:04 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
हिमसंस्कृतवार्ता: – धर्मशाला।
भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः ‘इन्डिगो एयरलाइन्स्’ इति विमानेन गगल-विमानापत्तने स्वपरिवारेण साकं प्राप्तवान्। भारतनिर्वाचन-आयोगस्य माननीयः मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः काङ्गड़ा-चम्बा-जनपदयोः चतुर्दिवसीय-प्रवासे वर्तते। तस्य एषः प्रवासः ०५ जून २०२६ तः ०८ जून २०२६ पर्यन्तं निर्धारितः अस्ति। अस्मिन् अन्तराले सः निर्वाचनसम्बद्धानां विभिन्नानां विधीनां समीक्षां कर्तुं सहैव निर्वाचनकार्याधिकारिभिः, बी.एल.ओ. (BLO), बी.एल.ओ.-पर्यवेक्षकैः तथा अन्यैः सम्बद्धाधिकारिभिः साकं संवादं करोति। स्वप्रवासस्य प्रथमे दिने माननीयः मुख्यनिर्वाचनायुक्तः ‘होटल हयात’ (धर्मकोट, धर्मशाला) इत्यत्र आयोजिते एकस्मिन् संवादकार्यक्रमे मतदानकेन्द्रस्तरीयाधिकारिभिः (बीएलओ), बी.एल.ओ.-पर्यवेक्षकैः तथा निर्वाचनकर्मचारिभिः सह विस्तृतां चर्चाम् अकरोत्। अस्मिन्नावसरे हिमाचलप्रदेशस्य मुख्यनिर्वाचनाधिकारिणी नन्दितागुप्ता, अतिरिक्त-मुख्यनिर्वाचनाधिकारी नीरजचांदला, अतिरिक्त-मुख्यनिर्वाचनाधिकारी मुरारीलालः, उप-मुख्यनिर्वाचनाधिकारी दोरजेठाकुरः तथा जनपद-उपमण्डलस्तरीय-निर्वाचनाधिकारिणः उपस्थिताः आसन्।
स्वकीय-सम्बोधने माननीयः मुख्यनिर्वाचनायुक्तः बी.एल.ओ. तथा बी.एल.ओ.-पर्यवेक्षकाणां भूमिकायाः भृशं प्रशंसां कुर्वन् तान् निर्वाचनतन्त्रस्य आधारशिला इति अवोचत्। तेन प्रतिपादितं यत् मतदातासूच्याः शुद्धतां, विश्वसनीयतां, समावेशितां च निश्चितं कर्तुं बी.एल.ओ.-महोदयानां भूमिका अतीव महत्त्वपूर्णा अस्ति। मुख्यनिर्वाचनायुक्तः ‘विशेष गहन पुनरीक्षण’ (SIR) इत्यस्य महत्त्वे बलं दत्त्वा निर्देशं दत्तवान् यत् अभियानकाले प्रत्येकं पात्रनागरिकं यावत् प्राप्तिः (पहुंच) निश्चिता करणीया। सः विशेषरूपेण तेषां पात्रनागरिकाणां संचिह्नीकरणे (पहचान) पञ्जीकरणे च ध्यानं केन्द्रितुम् अकथयत्, येषां नामानि केनापि कारणेन मतदातासूच्यां अङ्कितानि न अभवन्। तेन संसूचितं यत् एतत् सुनिश्चितं भवेत् यत् कश्चपि पात्रः मतदाता सूच्याः वञ्चितः न स्यात्, नापि कापि अपात्रा प्रविष्टिः सूच्यां सम्मीलिता भवेत्।
संवादकाले बी.एल.ओ.-द्वारा क्षेत्रस्तरे सम्मुखीक्रियमाणानां विभिन्नानां आह्वानानां, विशेषतः नूतनमतदातृणां संचिह्नीकरणस्य, प्रवासिमतदातृणां प्रमाणीकरणस्य (सत्यापन) तथा मतदातासूच्याः अद्यतनीकरणस्य (अपडेट) विषयेषु विमर्शाः कृताः। माननीयः मुख्यनिर्वाचनायुक्तः निर्वाचन-आयोगस्य पक्षतः पूर्णसहयोगस्य आश्वासनं दत्तवान् तथा च सम्बद्धाधिकारिणः आवश्यकाय प्रशिक्षाय व्यवस्थागतसहायतायै च निर्देशितवान्। तेन निर्वाचनकार्ये प्रगत-सूचनाप्रौद्योगिक्याः (IT आधारित प्रणालियों) प्रभावशालि-उपयोगेऽपि बलं दत्तम्, येन पारदर्शिता, कार्यकुशलता, समयबद्धता च निश्चिता भवितुं शक्नुयात्। कार्यक्रमस्य अन्ते माननीयः मुख्यनिर्वाचनायुक्तः निर्वाचनतन्त्रस्य कार्येषु सन्तोषं प्रकटयन् सर्वान् अधिकारिणः कर्मचारिणश्च निष्पक्षां, पारदर्शिनीं, समावेशिनीं च निर्वाचनप्रक्रियां सुनिश्चितं कर्तुं पूर्णसमर्पणेन प्रतिबद्धतया च कार्यं कर्तुम् आह्वानं कृतवान्।
अतः परं मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः मैक्लोडगञ्ज-स्थिते नामग्याल-मठं, ‘सेंट जॉन’ इति चर्च-भवनं, नॉरबुलिंगका-मठं च अभ्रमत्।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम्
Next Article नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?