By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वटसावित्रीव्रतसमीक्षा पर्वविशेष:-डॉ विमलेश झा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > वटसावित्रीव्रतसमीक्षा पर्वविशेष:-डॉ विमलेश झा
दिवसविशेषः

वटसावित्रीव्रतसमीक्षा पर्वविशेष:-डॉ विमलेश झा

डॉ.अमनदीप शर्मा
Last updated: 2026/05/16 at 8:05 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
6 Min Read
SHARE

वटसावित्रीव्रतसमीक्षा(पर्वविशेष:)
भारतीयसंस्कृतौ व्रतानां महत्त्वं परमम् अस्ति। व्रतानि केवलं धार्मिककर्माणि न, अपितु तानि मानवजीवनस्य नैतिकशुद्धिं, पारिवारिकसौहार्दं, सामाजिकैक्यं च संवर्धयन्ति। सनातनधर्मे स्त्रीणां कृते अनेकानि व्रतानि निर्दिष्टानि सन्ति, येषां माध्यमेन ताः स्वपारिवारिकजीवनस्य मंगलकामनां कुर्वन्ति। तेषु व्रतेषु “वटसावित्रीव्रतम्” अत्यन्तं प्रसिद्धं, पूज्यं च अस्ति। एतत् व्रतं विशेषतया पतिव्रतानां स्त्रीणां व्रतम् अस्ति, यत् पतिदीर्घायुषः, परिवारस्य सुखसमृद्धेः, अखण्डसौभाग्यस्य च प्राप्त्यर्थं क्रियते। ज्येष्ठमासस्य अमावास्यायाम् एतत् व्रतं श्रद्धया आचर्यते।
“वटसावित्रीव्रतम्” भारतीयनारीणां आदर्शपतिव्रतधर्मस्य प्रतीकं मन्यते। अस्य व्रतस्य मूलं सावित्री-सत्यवतो: पौराणिकी कथा अस्ति, या महाभारते वनपर्वणि वर्णिता अस्ति। सावित्री स्वपतेः प्राणान् यमात् पुनः प्राप्तवती इति कथा भारतीयनारीणां दृढसंकल्पस्य, भर्तृभक्तेः, धैर्यस्य च अद्वितीयं उदाहरणम् अस्ति।
“वटसावित्री” इति शब्दः द्वाभ्यां पदाभ्यां निर्मितः अस्ति—“वट” तथा “सावित्री”। वटः अर्थात् वटवृक्षः, यः भारतीयसंस्कृतौ दीर्घायुषः, स्थैर्यस्य, अमरत्वस्य च प्रतीकः मन्यते। सावित्री तु सा पतिव्रता नारी या स्वस्य पतिं मृत्युमुखात् उद्धृतवती। अतः वटवृक्षस्य समीपे सावित्र्याः पूजनं कृत्वा यत् व्रतम् आचर्यते, तत् “वटसावित्रीव्रतम्” इति कथ्यते।
भारतीयसंस्कृतौ वृक्षाणामपि पूजनीयस्थानम् अस्ति। वटवृक्षः विशेषतया त्रिदेवस्वरूपः मन्यते। स्कन्दपुराणे उक्तम्—

“मूले ब्रह्मा स्थितो नित्यं मध्ये विष्णुः प्रतिष्ठितः।
अग्रे देवः शिवः प्रोक्तो वटवृक्षं नमाम्यहम्॥”

अर्थात् वटवृक्षस्य मूलभागे ब्रह्मा, मध्यभागे विष्णुः, अग्रभागे शिवः निवसन्ति। अतः वटवृक्षस्य पूजनं त्रिदेवपूजनस्य फलप्रदं मन्यते। वटवृक्षः दीर्घजीवी भवति, अतः सः अखण्डसौभाग्यस्य प्रतीकः अस्ति। स्त्रियः तस्य परिक्रमा कृत्वा स्वभर्तुः दीर्घजीवनस्य कामनां कुर्वन्ति।
सावित्री-सत्यवतो:कथा
अस्य व्रतस्य प्रमुखाधारः सावित्री-सत्यवतो: कथा अस्ति। प्राचीनकाले अश्वपतिनामकः राजा आसीत्। तस्य कन्या सावित्री अत्यन्तं रूपवती, गुणवती, तेजस्विनी च आसीत्। सा विवाहार्थं योग्यं वरं अन्वेष्टुं स्वयं निर्गता। तदा सा वनवासिनं सत्यवन्तं दृष्टवती। सत्यवान् धर्मात्मा, सत्यवादी, विनयी च आसीत्। किन्तु देवर्षिः नारदः उक्तवान् यत् सत्यवत: आयुः केवलं एकवर्षपर्यन्तमेव अस्ति।
एतत् ज्ञात्वापि सावित्री दृढनिश्चयेन सत्यवन्तमेव पतिरूपेण स्वीकृतवती। विवाहानन्तरं सा पतिसेवायां निरता अभवत्। यदा सत्यवत: मृत्युर्दिनम् आगतं तदा सावित्री उपवासं कृत्वा पतिसहितं वनं गतवती। सत्यवान् काष्ठच्छेदनकाले मूर्छितः भूत्वा भूमौ पतितः। तदा यम: तस्य प्राणान् नेतुम् आगतवान्।
सावित्री यमस्य पृष्ठतः गच्छन्ती धर्मयुक्तैः वचनैः तं प्रसन्नं कृतवती। यम: तस्याः पतिव्रतधर्मेण, बुद्ध्या, विनयेन च प्रभावितः अभवत्। अन्ततः सः सावित्र्यै वरान् दत्त्वा सत्यवत: प्राणान् पुनः प्रत्यर्पितवान्। एवं सावित्री स्वपतेः जीवनं पुनः प्राप्तवती। एषा कथा भारतीयनारीणां धैर्यस्य, श्रद्धायाः, निष्ठायाः, बुद्धेः च अद्भुतं उदाहरणम् अस्ति।
वटसावित्रीव्रतस्य आचरणं अत्यन्तं श्रद्धापूर्वकं क्रियते। स्त्रियः प्रातःकाले स्नानं कृत्वा नूतनवस्त्राणि धारयन्ति। ततो देवपूजनं कृत्वा वटवृक्षस्य समीपं गच्छन्ति। तत्र रोली, अक्षत, पुष्प, फल, धूप, दीप, नैवेद्यादिभिः वटवृक्षस्य पूजनं कुर्वन्ति। वटवृक्षे सूतबन्धनं कृत्वा परिक्रमा क्रियते। ततः सावित्री-सत्यवन्तं कथा श्रूयते।
कुत्रचित् प्रदेशेषु स्त्रियः निर्जलोपवासमपि कुर्वन्ति। सायंकाले ब्राह्मणभोजनं, दानं च कृत्वा व्रतस्य पारणं क्रियते। व्रतस्य मुख्यभावः श्रद्धा, संयमः, पतिसेवा, परिवारनिष्ठा च अस्ति।
एतत् व्रतं केवलं धार्मिकक्रिया न, अपितु सामाजिकदृष्ट्यापि महत्त्वपूर्णम् अस्ति। एतेन पारिवारिकसौहार्दं सुदृढं भवति। स्त्रियः स्वपरिवारस्य मंगलं चिन्तयन्ति। व्रतसमये ग्रामेषु नगरेषु च स्त्रियः एकत्र समागत्य पूजां कुर्वन्ति, येन सामाजिकैक्यं वर्धते। अस्मिन् व्रते पतिव्रतधर्मस्य महत्त्वं प्रतिपाद्यते। परन्तु अस्य तात्पर्यं केवलं पतिपूजा न, अपितु पारस्परिकविश्वासः, प्रेम, त्यागः, सहनशीलता च अस्ति। आधुनिकसमाजे यदा पारिवारिकसम्बन्धाः दुर्बलाः भवन्ति, तदा एतादृशानि व्रतानि नैतिकमूल्यानां संरक्षणे सहायकानि भवन्ति।
भारतीयसंस्कृतिः उत्सवानां, व्रतानां, पर्वाणां च संस्कृतिः अस्ति। वटसावित्रीव्रतं भारतीयनारीणां सांस्कृतिकचेतनाया: जागरणं कारयति। अस्य माध्यमेन पौराणिककथानां ज्ञानं अग्रिमवंशे सञ्चरति। बालकाः अपि एतादृशेषु अवसरेषु भारतीयपरम्परायाः शिक्षां लभन्ते।
वटवृक्षस्य पूजनं पर्यावरणसंरक्षणस्य अपि सन्देशं ददाति। भारतीयपरम्परायां वृक्षपूजनस्य परम्परा प्रकृतिसंरक्षणस्य वैज्ञानिकदृष्टिकोणस्य द्योतिका अस्ति। वटवृक्षः प्राणवायोः प्रमुखः स्रोतः अस्ति। अतः अस्य संरक्षणं मानवजीवनाय आवश्यकम् अस्ति।
आध्यात्मिकदृष्ट्या अपि व्रतस्य महत्त्वम् अस्ति।
व्रतस्य मूलं आत्मसंयमः अस्ति। उपवासेन मनसः शुद्धिः भवति। श्रद्धया पूजनं कृत्वा मानवः आत्मिकशान्तिं प्राप्नोति। सावित्र्याः कथा धर्मस्य विजयम्, सत्यस्य महत्त्वं, श्रद्धायाः प्रभावं च प्रतिपादयति। यमराजोऽपि धर्मयुक्तवचनैः प्रभावितः अभवत्—एतत् दर्शयति यत् सत्यं धर्मश्च सर्वदा विजयी भवतः।
अद्यतनकाले केचन जनाः व्रतानि केवलं रूढिवादस्य प्रतीक: इति मन्यन्ते। किन्तु यदि तेन एतस्य व्रतस्य आन्तरिकतत्त्वं ज्ञायते तर्हि ज्ञायते यत् एतानि व्रतानि मानवजीवनं अनुशासितं, संयमितं, संस्कारयुक्तं च कुर्वन्ति। वटसावित्रीव्रतस्य प्रमुखसन्देशः अस्ति—निष्ठा, प्रेम, धैर्यं, परिवारस्य प्रति समर्पणम् च।
आधुनिकनारी शिक्षिता, स्वावलम्बिनी च अस्ति, किन्तु तस्या: जीवने अपि पारिवारिकमूल्यानां महत्त्वं न्यूनं नास्ति। सावित्री न केवलं पतिव्रता आसीत्, अपितु सा बुद्धिमती, धैर्यशालिनी, निर्णायकशक्तिसम्पन्ना च आसीत्। अतः सावित्री आधुनिकनारीणामपि प्रेरणास्रोतः अस्ति।
वटसावित्रीव्रते अनेकानि नैतिकमूल्यानि अन्तर्निहितानि सन्ति।
निष्ठा — सावित्री स्वनिर्णये दृढा आसीत्।
धैर्यम् — विपत्तौ अपि सा विचलिता न अभवत्।
बुद्धिमत्ता — यमेन सह संवादे तस्याः प्रज्ञा दृश्यते।
कर्तव्यपरायणता — सा पतिसेवायां सदा तत्परा आसीत्।
धर्मनिष्ठा — सावित्री धर्ममार्गात् कदापि न विचलिता।
एतानि मूल्यानि अद्यतनसमाजस्य कृते अपि अत्यावश्यकानि सन्ति।
संस्कृतसाहित्ये सावित्रीकथा बहुधा वर्णिता अस्ति। महाभारते अस्याः विस्तृतं वर्णनं दृश्यते। अनेककविभिः सावित्री पतिव्रतानां आदर्शरूपेण चित्रिता। हिन्दी, बंगला, मराठी, गुजराती, मैथिली, भोजपुरी इत्यादिषु भाषासु अपि अस्याः कथा लोकगीतैः, नाटकै:, कविताभिश्च प्रसिद्धा अस्ति।
वटसावित्रीव्रतम् भारतीयसंस्कृतेः गौरवमयं पर्व अस्ति। एतत् व्रतं केवलं धार्मिकपरम्परा न, अपितु नारीशक्तेः, धैर्यस्य, निष्ठायाः, धर्मस्य च प्रतीकम् अस्ति। सावित्र्याः चरित्रं मानवजीवनाय प्रेरणादायकम् अस्ति। वटवृक्षस्य पूजनं पर्यावरणसंरक्षणस्य संदेशं ददाति। पारिवारिकजीवने प्रेम, विश्वासः, त्यागः, समर्पणं च आवश्यकमिति एतत् व्रतं शिक्षयति।
सम्प्रति वैज्ञानिकयुगे अपि एतादृशानां व्रतानां सांस्कृतिकं नैतिकं च महत्त्वम् अस्ति। भारतीयसंस्कृतेः मूलाधाराः एते संस्काराः एव सन्ति। अतः वटसावित्रीव्रतस्य संरक्षणं, प्रचारश्च आवश्यकः, यतः एतत् व्रतं न केवलं धर्मस्य, अपितु भारतीयजीवनमूल्यानां जीवितप्रतीकं वर्तते।उक्तं च –
अमायां च तथा ज्येष्ठे वटमूले महासती। त्रिरात्रोपोषिता नारी विधानेन प्रपूजयेत्। इत्यलम्।।

डॉ विमलेश झा, डीएवी पब्लिक स्कूल,बरारी,भागलपुर,बिहार

You Might Also Like

भारतं ‘महिला-नेतृत्व-विकासः’ इति मन्त्रेण सह अग्रे वर्धते-: राष्ट्रपतिः द्रौपदी मुर्मुः

छत्रपति शिवाजीमहाराज: – व्यक्तित्वं कृतित्वं च(जयंतीविशेष:)

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?