हिमन्ता बिस्व शर्मा असम-राज्यस्य मुख्यमन्त्री रूपेण शपथं गृहीतवान्
भारतीय-जनता-पार्टी इत्यस्य वरिष्ठनेता हिमन्ता बिस्व शर्मा द्वितीयवारं असम-राज्यस्य मुख्यमन्त्री रूपेण शपथम् अकरोत्। गुवाहाटी-नगरस्य खानापारा-स्थितस्य पशु-चिकित्सा-महाविद्यालयस्य प्राङ्गणे आयोजितस्य एकस्य भव्यसमारोहस्य मध्ये राज्यपालः लक्ष्मण प्रसाद आचार्यः डॉ. शर्मावर्याय पदस्य गोपनीयतायाः च शपथं कारितवान्।
मन्त्रिमण्डलस्य विस्तारः
डॉ. शर्मा महोदयेन सह अन्ये चत्वारः विधायकाः अपि मन्त्रिरुपेण शपथम् अगृह्णन्। तेषु रामेश्वर तेली, अजन्ता नियोगश्च (भाजपा)
अतुल बोरा (असम गण परिषदः)
चरण बोरो च (बोडोलैंड पीपुल्स फ्रंट) प्रमुखाः सन्ति । अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथ सिंहः च उपस्थिताः आसन्। एतैः सह बहवः केन्द्रीयमन्त्रिणः भाजपा-शासितराज्यानां मुख्यमन्त्रिणः अपि समारोहस्य शोभां वर्धितवन्तः।
निर्वाचनपरिणामाः
असम विधानसभायां राष्ट्रिय लोकतान्त्रिक गठबन्धन (NDA) दलेन निरन्तरं तृतीयवारं सत्ता प्राप्ता। १२६ सदस्यीय-विधानसभायां गठबन्धनेन १०२ स्थानानि जितानि। भारतीय जनता पार्टी इति दलेन ८२ स्थानानि (सर्वाधिकं बृहत् दलम्) प्राप्तानि। असम गण परिषदा १० स्थानानि तथा बोडोलैंड पीपुल्स फ्रंट इति दलेन १० स्थानानि प्राप्तानि ।
हिमन्ता बिस्व शर्मा असम-राज्यस्य मुख्यमन्त्री रूपेण शपथं गृहीतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
