भारत-भूटानदेशयोः मध्ये पत्रालय-सहयोगाय सहमतिपत्रे (MoU) हस्ताक्षरम्
भारतं भूटानदेशः च पत्रालय-सहयोगाय (Postal Cooperation) एकस्मिन् सहमतिपत्रे हस्ताक्षरं कृतवन्तौ, यत् भारतीय-पत्रालय (India Post) तथा भूटान-पत्रालय (Bhutan Post) इत्यनयोः मध्ये सहयोगाय एकं व्यवस्थितं प्रारुपं (Structured Framework) प्रदास्यति।
अस्य सहमतिपत्रस्य मुख्योद्देश्यं पत्रालय-सञ्चालनम्, प्रौद्योगिकी-विकासः, क्षमता-निर्माणम्, पत्रालय-टिकट-सङ्ग्रहः (Philately) तथा ज्ञानस्य आदान-प्रदानं इत्यादिषु क्षेत्रेषु सहयोगं प्रवर्धयितुम् अस्ति। भारतस्य सञ्चारमन्त्रालयस्य तथा भूटानस्य आधारभूतसंरचना-परिवहनमन्त्रालयस्य च मध्ये एषः सम्झौता तदा अभवत्, यदा पत्रालयविभागस्य सचिवः भूटानस्य यात्रायां आसीत्।
उभौ देशौ प्रौद्योगिकी-क्षेत्रे सहयोगं सुदृढीकर्तुं सम्मतौ अभवताम्, येन भारतीय-पत्रालयस्य विकसन्त्याः प्रौद्योगिकी-पारिस्थितिक्याः (Technology Ecosystem) अनुभवाः तथा उत्तमाः पद्धतयः परस्परं कर्तुं शक्यन्ते।
भारत-भूटानदेशयोः मध्ये पत्रालय-सहयोगाय सहमतिपत्रे (MoU) हस्ताक्षरम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
