भारत-टेक्स २०२६ (Bharat Tex 2026) इत्यस्य शुभारम्भः
वस्त्रमन्त्री गिरिराजसिंहः नवदेहली-नगरे ‘भारत-टेक्स २०२६’ इत्यस्य शुभारम्भं कृतवान्। अस्य कार्यक्रमस्य तृतीयं संस्करणं जुलाई-मासस्य १४ दिनाङ्कतः १७ दिनाङ्कपर्यन्तं राष्ट्रियराजधान्याः भारत-मण्डपम् इति स्थाने भविष्यति। वस्त्रक्षेत्रे व्यापार-निवेश-सम्पर्काणां (Networking) च कृते एतत् एकं प्रमुखं मञ्चम् अस्ति। अस्मिन् अवसरे श्रीसिंहः उक्तवान् यत् आगामि-दिनेषु भारतं प्राकृतिक-तन्तूनां (Natural Fibers) केन्द्ररूपेण उद्भविष्यति। वस्त्रमन्त्रिणा सूचितं यत् अस्मिन् आयोजने १४१ देशानां प्रतिनिधयः भागं ग्रहीष्यन्ति।
श्रीगिरिराजसिंहः अस्मिन् अवसरे ‘भारत-नेक्स्ट २०२६’ इत्यस्य सूचनापत्रं (Brochure) प्रसारितवान् तथा च अन्तर्जालपुटास्य (Website) उद्घाटनं कृतवान्। अस्मिन् कार्यक्रमे सप्तसहस्र-अन्तर्राष्ट्रिय-क्रेतृभिः सह लक्षत्रयाधिक-त्रिंशत्-सहस्र (1,30,000) व्यापारिक-अतिथीनां आगमनस्य सम्भावना अस्ति।
