कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्
नलबारी, असम:
अद्य असमप्रदेशस्य प्रतिष्ठितस्य कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालयस्य सर्वदर्शनविभागे एका नूतना उपलब्धिः पञ्जीकृता। विभागे ‘कैवल्यमञ्जरी’ इति नाम्नः भित्तिपत्रिकायाः (Wall Magazine) समुद्घाटनं सोत्साहं सम्पन्नम्।
अस्याः पत्रिकायाः उद्घाटनं विश्वविद्यालयस्य माननीयैः कुलगुरुभिः आचार्यैः प्रह्लाद रा.जोशीमहोदयैः स्वकरकमलैः कृतम्। अस्मिन् अवसरे कुलगुरुमहोदयाः पत्रिकायाः प्रशंसां कुर्वन्तः उक्तवन्तः यत् ईदृशाः प्रयासाः छात्राणां बौद्धिकविकासाय अत्यन्तं आवश्यकाः सन्ति। अस्याः भित्तिपत्रिकायाः मुख्यविषयः ‘जन्म-जन्मान्तरवादः’ अस्ति ।पत्रिकायाम् श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन प्रतिपादितस्य जन्मान्तरवादस्य गम्भीरं विवेचनं कृतम् अस्ति। तत्रैव सर्वेषाम् आस्तिक-नास्तिक-दर्शनानां मतानुसारं जन्मान्तरवादस्य स्वरूपं स्पष्टीकृतम्। तत्र सांख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्त-चार्वाक-बौद्ध-जैनदर्शनानुसारं जन्मान्तरप्राप्तेः विषये प्रतिपादितम्।अपि च, उपनिषत्सु वर्णितस्य जन्मान्तरविषयस्य अपि अत्र सुन्दरं प्रतिपादनं दृश्यते। इतोपि पुण्यपापकर्मणां तत्फलभोगविषये च अपि प्रतिपादितमासीत्।
अस्य दार्शनिकविषयस्य उपरि प्रकाशनं विभागस्य विद्यार्थिभिः कृतम्। तैः अतीव सम्यक्तया विषयस्य समुस्थापनं कृत्वा दर्शनस्य गम्भीरतत्त्वावबोधः अपि विस्तरेण कारितः। तत्र निर्णायकमण्डल्या अपि बहवः प्रश्नाः कृताः येषां सम्यक् समाधानं छात्रैः विधत्तम्।
अस्मिन् उद्घाटनावसरे सर्वदर्शनविभागस्य अध्यक्षः आचार्य: रणजीतकुमारतिवारी महोदयः, विभागीयाध्यापिका आचार्या उमामाहेश्वरी बी, सुश्रीलोपामुद्रागोस्वामी तथा अन्ये अतिथ्यध्यापकाः, शोधछात्राः अन्ये छात्राः च बहुसंख्यया उपस्थिताः आसन्। सर्वे छात्राः अस्याः पत्रिकायाः माध्यमेन दार्शनिकविषयान् पठित्वा लाभान्विताः भविष्यन्ति। अयं कार्यक्रमः विश्वविद्यालयस्य शैक्षणिकवातावरणं अधिकं सुदृढं करोति।
