उत्तराखण्ड-विधानसभायाम् ‘देवभूमि-परिवार-विधेयक-2026’ प्रस्तुतम्
हिमसंस्कृतवार्ता। उत्तराखण्ड-सर्वकारेण बजट-सत्रस्य अवसरे विधानसभायाम् “देवभूमि-परिवार-विधेयक-2026” इति प्रस्तुतम्। अस्य मुख्यम् उद्देश्यं जनकल्याणकारी-योजनानां प्रभावकारी क्रियान्वयनम् अस्ति। अस्मिन् विधेयके पारिते सति राज्ये एकं एकीकृतं प्रमाणीकृतं च परिवार-आधारितं ‘डेटाबेस’ (तथ्य-सञ्चयः) सज्जीकर्तुं शक्यते। अस्मिन् प्रपत्रे परिवारस्य 18 वर्षतः अधिकवयस्का वरिष्ठा महिला सदस्यैव गृहस्वामिनी (मुखिया) रूपेण अङ्किता भविष्यति। अस्याः प्राथमिकप्रक्रियायाः लक्ष्यं विभिन्न-सर्वकारीय-विभागेषु पञ्जीकृत-लाभार्थिनां तथ्यानां परस्परं संयोजनम् अस्ति। एतेन सर्वकारीय-योजनानां कार्यान्वयनम् अधिकं प्रभावशालि पारदर्शकं च भविष्यति। वर्तमानकाले सर्वे सर्वकारीय-विभागाः पृथक्-पृथक् लाभार्थि-सूचिकानां प्रयोगं कुर्वन्ति, येन तथ्यानां पुनरावृत्तिः, पुनः प्रमाणीकरणस्य क्लिष्टता, समन्वयस्य अभावः च इत्यादयः समस्याः उद्भवन्ति।
उत्तराखण्ड-विधानसभायाम् ‘देवभूमि-परिवार-विधेयक-2026’ प्रस्तुतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
