पश्चिम-एशिया-संघर्षेण वित्तीय-विपणौ अस्थिरता; सेबी-अध्यक्षस्य विनिवेशकान् प्रति धैर्य-आवाहनम्
पश्चिम-एशिया-क्षेत्रे प्रचलितेन युद्ध-सङ्घर्षेण वित्तीय-विपणुषु वर्धमानाम् अस्थिरताम् अवलोक्य, सेबी (SEBI) संस्थायाः अध्यक्षेण श्री तुहिनकान्तपाण्डे-महोदयेन विनिवेशकाः धैर्यं संयमं च धरितुम् आहूताः। मुम्बई-नगर्यां ‘निफ्टी ५०’ (Nifty 50) इत्यस्य त्रिंशत् वर्षाणां गौरवपूर्णयात्रायाः उपलक्ष्ये आयोजितं कार्यक्रमं सम्बोधयन् पाण्डे-महोदयः अवदत् यत्— भारतस्य सुदृढं घरेलु-आधारभूत-संरचना (Domestic Infrastructure) एतादृश्याम् अनिश्चिततायां दृढतां प्रदास्यति।
अध्यक्षेण प्रतिपादितं यत् पश्चिम-एशिया-युद्धकारणात् प्रमुख-नौवहन-मार्गेषु (Shipping routes) बाधाः उत्पन्नाः, तथा च तैल-प्राकृतिकवायु-आपूर्तौ आकस्मिक-अवरोधेन वैश्विक-विपणिः वर्तमाने विप्लवस्य (Turmoil) सामनां कुर्वन् अस्ति। एतेन आपूर्ति-माङ्ग-पक्षयोः (Supply and demand) गम्भीरः अवरोधः जातः। तेन एतदपि स्पष्टीकृतं यत् भारतमपि एताभिः घटनाभिः प्रभावितम् अस्ति।
पश्चिम-एशिया-संघर्षेण वित्तीय-विपणौ अस्थिरता; सेबी-अध्यक्षस्य विनिवेशकान् प्रति धैर्यस्य आवाहनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
