ICC T20 WORLD CUP 2026- भारतेन इंग्लैंडदलं 7 धावनांकैः पराजितम्।
अन्तिमचक्रे प्रवेश:।
इदानीं मार्च 08 दिनांके न्यूज़ीलैंडदेशेन सह भविष्यति स्पर्धा।
हिमसंस्कृतवार्ता:- कामेश्वर शर्मा। गत दिवसे विंशति- विंशति: क्रिकेट- विश्वचषके मुम्बई स्थिते वानखेडे इति क्रीडांगणे भारतेन इंग्लैण्डदलं 7 धावनांकैः पराजितम्।
पणकं विजित्य इंग्लैण्डदलेन क्षेत्ररक्षणं चयनितम्। फलकक्रीड़ायां भारतस्य प्रारम्भः सुदृढः नाभवत्।
प्रारम्भिकक्रीडक: अभिषेकशर्मा द्वितीये कन्दुचक्रे 09 धावनांकानामोपरि विल जैक्स इत्यनेन बाधितः। तदनन्तरं संजू सैमसन 42 कन्दुकेषु 89, ईशान किशन 39, सूर्यकुमारयादव: 6 कंदुकेषु 11, हार्दिक पांड्या 12 कन्दुकेषु 27, तिलकवर्मा 7 कन्दुकेषु 21, शिवम दुबे 25 कन्दुकेषु 43 धावनांकान् योजितवन्तः। एतेषां सहयोगेन भारतेन 20 कन्दुचक्रेषु 7 स्तोभहानौ 253 धावनांकाः अर्जिताः। इंग्लैंडपक्षतः विल जैक्स:, आदिल रशीदश्च 02-02 भारतीयक्रीडकान् बाधितवन्तौ। जोफ्रा आर्चर 01 स्तोभं प्राप्तवान्। 254 धावनांकानां प्राप्तिक्रमे इंग्लैण्ड देशस्य प्रारम्भः सुदृढः नाभवत्। फिल सॉल्ट द्वितीय कन्दुचक्रे हार्दिक पाण्डया इत्यनेन बाधितः। तदनु जोस बटलर 17 कन्दुकेषु 25, जैकब बैथल 48 कन्दुकेषु 105, विल जैक्स 20 कन्दुकेषु 35 इत्येतेषां सहयोगेन इंग्लैण्ड देशेन 20 कन्दुचक्रेषु 7 स्तौभहानौ 246 धावनांकाः अर्जिताः। इंग्लैंडपक्षतः जैकब बैथल तीव्रतमम् अर्धशतकं कृतवान्। तेन स्वकीयं शतकमपि कृतं परन्तु स्वकीयं दलं विजेतुं सः समर्थो नाभवत्। भारतीयकन्दुकक्षेपकेशु हार्दिक पांड्या 2, अर्शदीप सिंह:, अक्षर पटेल:, वरुण चक्रवर्ती, जसप्रीत बुमराहश्च 1-1 स्तोभं प्राप्तवन्तः। भारतीयक्षेत्ररक्षणमपि उत्कृष्टमासीत्।
भारतीयपक्षे स्वकीयोत्तम- प्रदर्शनाय संजू सैमसन स्पर्धापुरुषः चयनितः।
ICC T20 WORLD CUP 2026- भारतेन इंग्लैंडदलं 7 धावनांकैः पराजितम्।
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
