By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महामहोपाध्याय- साधु भद्रेशदास- महोदयस्य संस्कृतजगति योगदानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विविध > महामहोपाध्याय- साधु भद्रेशदास- महोदयस्य संस्कृतजगति योगदानम्
विविध

महामहोपाध्याय- साधु भद्रेशदास- महोदयस्य संस्कृतजगति योगदानम्

डॉ.अमनदीप शर्मा
Last updated: 2026/02/27 at 8:20 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

महामहोपाध्याय- साधु भद्रेशदास- महोदयस्य संस्कृतजगति योगदानम्।

हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर:, हिमाचलप्रदेशम्।

महामहोपाध्याय- साधु भद्रेशदासमहोदयाः आधुनिककालस्य प्रख्याताः संस्कृतविद्वांसः, दार्शनिकाः, बी. ए. पी. एस. (BAPS) स्वामीनारायणसंस्थायाः श्रेष्ठसन्ताश्च सन्ति। तेषां पाण्डित्यं सम्पूर्णविश्वे संस्कृतजगति च सुप्रसिद्धम् अस्ति।
प्रमुखं कार्यम्- प्रस्थानत्रयी-भाष्यम्
भद्रेशदासस्वामिनां सर्वाधिकं महत्त्वपूर्णं कार्यं ‘प्रस्थानत्रयी’ इत्यस्य उपरि संस्कृतभाष्यलेखनम् अस्ति। तैः उपनिषद्-भगवद्गीता-ब्रह्मसूत्राणाम् उपरि ‘स्वामीनारायणभाष्यम्’ लिखितम्। श्रीशङ्कराचार्याणाम् अनन्तरं भद्रेशदासमहोदयाः एकाकिनः एव विद्वांसः सन्ति, यैः सम्पूर्णप्रस्थानत्रय्याम् नवीनं भाष्यं रचितम्। तैः स्वभाष्यमाध्यमेन ‘अक्षर-पुरुषोत्तम-दर्शनम्’ इति वैदिक-सिद्धान्तं प्रतिपादितम्। अनेन कार्येण भारतीयदर्शने एकः नवीनः अध्यायः संयुक्तः।
तिरुपतिनगरे अखिल-भारतीय-विद्वत्परिषदा एतत् दर्शनं स्वतन्त्रदर्शनत्वेन स्वीकृतम्। तेषां गुरुः ब्रह्मस्वरूप- प्रमुखस्वामीमहाराजः आसीत्। सम्प्रति ते महन्तस्वामिमहाराजस्य मार्गदर्शने धर्मप्रसारं कुर्वन्ति।
उपाधयः-
ते ‘महामहोपाध्याय’, ‘वेदान्तमार्तण्ड’, ‘साहित्य- अकादमी- पुरस्कार’ इत्यादिभिः अनेकैः सम्मानैः विभूषिताः सन्ति।
वैदुष्यम्- ते व्याकरण- न्याय- वेदान्तादीनां शास्त्राणां प्रकाण्डपण्डिताः सन्ति।
विशिष्टाः उपलब्धयः-
१. विश्वस्तरीयं सम्मानम् (World-wide Recognition): भद्रेशदास- स्वामिनः तादृशाः विरलाः विद्वांसः सन्ति, ये ऑक्सफोर्ड- विश्वविद्यालयेन (Oxford University) व्याख्यानार्थं निमन्त्रिताः। तेषां संस्कृतपाण्डित्यं दृष्ट्वा हार्वर्ड (Harvard) तथा कोलम्बिया (Columbia) इत्यादि-विश्वविद्यालयानां विद्वांसः अपि विस्मिताः अभवन्।
२. तुलनात्मक-दर्शन-अध्ययनम्- तैः न केवलं स्वामीनारायणदर्शनस्य, अपि तु शङ्कराचार्य- (अद्वैत), रामानुजाचार्य- (विशिष्टाद्वैत), मध्वाचार्य- (द्वैत) इत्यादीनां प्रमुखवेदान्तशाखानां गहनं तुलनात्मकमध्ययनं कृतम्। अतः तेषां तर्काः अत्यन्तं प्रभाविनः शास्त्रीयाश्च भवन्ति।
३. आर्ष-शोध-संस्थानस्य नेतृत्वम्-
ते देहलीनगरस्थे ‘अक्षरधाम’ मन्दिरे स्थितस्य ‘आर्ष- शोध- संस्थानस्य’ (AARSH Research Institute) निदेशकाः सन्ति। तत्र ते अनेकेषां शोधच्छात्राणां मार्गदशर्नं कुर्वन्ति।
४. कठिनः पुरुषार्थः-
प्रस्थानत्रयी-भाष्यस्य रचनाकाले तैः अनेकवर्षाणि यावत् अत्यल्पनिद्रां कृत्वा अहोरात्रं परिश्रमः कृतः। आधुनिकयुगे एकेन व्यक्तिना एतादृशस्य बृहत्तमस्य संस्कृतसाहित्यस्य निर्माणं ‘दैवीयकार्यम्’ इति मन्यते।
५. पुरस्काराः उपाधयश्च:
साहित्य-अकादमी-पुरस्कारः-
संस्कृतसाहित्याय तेषां महते योगादानाय एषः पुरस्कारः दत्तः।
वेदान्त-मार्तण्डः-
काशीनगरे पण्डितसभायाः पक्षतः एषा महती उपाधिः प्रदत्ता।
विद्यावाचस्पतिः- (D.Litt): अनेकैः प्रतिष्ठित- विश्वविद्यालयैः तेभ्यः ‘मानद-डॉक्टरेट’ (Honorary Doctorate) उपाधिः समर्पिता।
तेषां जीवनशैली-
एतादृशं विश्वप्रसिद्धं पाण्डित्यं प्राप्यापि भद्रेशदासस्वामिनः अत्यन्तं विनम्राः, सरलाः, निरभिमानिनः च सन्ति। ते स्वस्य सर्वं साफल्यं स्वगुरुणां ब्रह्मस्वरूप- प्रमुखस्वामी- महाराजानां तथा प्रगटगुरु- महन्तस्वामी- महाराजानां कृपाप्रसादं मन्यन्ते। तेषां जीवनं ज्ञानस्य भक्त्याः च अपूर्वः सङ्गमः अस्ति। तेषां सम्पूर्णशिक्षाकाले तैः वाराणसीनगरस्य ‘सम्पूर्णानन्द- संस्कृत- विश्वविद्यालयात्’ न्यायादिशास्त्रेषु अनेके सुवर्णपदकानि प्राप्तानि। तेषां स्मरणशक्तिः अतीव प्रखरा वर्तते।
‘दर्शन-केशरी’ उपाधिः-
काशी-नगरस्य विद्वत्सभाभिः तेभ्यः ‘दर्शन-केशरी’ तथा ‘अक्षर- पुरुषोत्तम- वेदान्तकेसरी’ इति उपाधयः प्रदत्ताः। एतेन ज्ञायते यत् सम्पूर्णभारतस्य विद्वांसः तेषां पाण्डित्यं गौरवपूर्णं मन्यन्ते।
शोधमार्गदर्शनम् (Research Mentorship):-
विश्वस्य विविधानां विश्वविद्यालयानां पञ्चशताधिक- शोधच्छात्राणां (500+ Scholars) ते मार्गदर्शकाः सन्ति। तेषां छत्रछायायां संस्कृत-साहित्यस्य महती सेवा भवति।
गुरुनिष्ठा-
ते वदन्ति यत्- “एतद् भाष्यं मम पुरुषार्थस्य फलम् नास्ति, अपि तु मम गुरुणां ब्रह्मस्वरूप- प्रमुखस्वामी- महाराजानाम् आशीर्वादस्य पुष्पम् अस्ति।” गुरु- आज्ञापालने तेषां निष्ठा अनुपमा वर्तते।
साधु-भद्रेशदास-महोदयानां ओड़िशा-केन्द्रीय-विश्वविद्यालयस्य (Central University of Odisha) यात्रायाः विवरणम् ।
महामहोपाध्याय-साधु-भद्रेशदास-महोदयाः ओड़िशा-राज्यस्य कोरापुट-मण्डले स्थितां ‘ओड़िशा-केन्द्रीय-विश्वविद्यालयम्’ (Central University of Odisha, Koraput) प्रति गतवन्तः। तत्र विश्वविद्यालयस्य पक्षतः तेषां भव्यं स्वागतं कृतम्।
शोधच्छात्रान् प्रति सम्बोधनम्
तत्र तैः विश्वविद्यालयस्य ‘शोधच्छात्राः’ (Research Scholars) विशेषरूपेण सम्बोधिताः। तेषां ओजस्विन्या वाण्या शोधच्छात्राः अतीव प्रेरिताः अभवन्।
व्याख्यानस्य सारः-
तैः स्वव्याख्याने भारतीय-ज्ञान-परम्परायाः (Indian Knowledge System), संस्कृतस्य महत्त्वस्य तथा आधुनिक-अनुसन्धान-क्षेत्रे प्राचीन-शास्त्राणां उपयोगितायाः विषये गम्भीरं मार्गदर्शनं दत्तम्। तैः छात्रान् प्रति उक्तं यत्— “अनुसन्धानं केवलं पदवी-प्राप्तये न, अपि तु सत्यस्य अन्वेषणाय समाजस्य हिताय च भवेत्।” तेषां सारगर्भितं व्याख्यानं शोधच्छात्राणां कृते ज्ञानवर्धकं प्रेरणादायकं च आसीत्।
निष्कर्षः- निष्कर्षरुपेण अहं वक्तुं शक्नोमि तत् साधु- भद्रेशदास- महोदयानां योगदानं संस्कृतभाषायाः दार्शनिकपरम्परायाः च कृते अभूतपूर्वम् अस्ति। तेषां सरलस्वभावः गम्भीरं वैदुष्यं च सर्वेषां कृते प्रेरणादायकं वर्तते।

You Might Also Like

Banana-: कदलीफलस्य लाभाः गुणाः च

महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

September 23, 2025

प्रभाताभिलाषः (सत्यान्वेषणम्)

त्वं खलु जानासि

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सुनेत्रापवार-महोदया राष्ट्रवादी-कांग्रेस-दलस्य (NCP) राष्ट्रियाध्यक्षा निर्वाचिता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?