By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जे. पी. नड्डा ब्राजील-देशस्य स्वास्थ्य-मन्त्रिणा अलेक्सान्द्रे पदिल्हा इत्यनेन सह मन्त्रणोपवेशनं कृतवान्।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > जे. पी. नड्डा ब्राजील-देशस्य स्वास्थ्य-मन्त्रिणा अलेक्सान्द्रे पदिल्हा इत्यनेन सह मन्त्रणोपवेशनं कृतवान्।
राष्ट्रीयवार्ताः

जे. पी. नड्डा ब्राजील-देशस्य स्वास्थ्य-मन्त्रिणा अलेक्सान्द्रे पदिल्हा इत्यनेन सह मन्त्रणोपवेशनं कृतवान्।

डॉ.अमनदीप शर्मा
Last updated: 2026/02/19 at 8:17 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

जे. पी. नड्डा ब्राजील-देशस्य स्वास्थ्य-मन्त्रिणा अलेक्सान्द्रे पदिल्हा इत्यनेन सह मन्त्रणोपवेशनं कृतवान्।
हिमसंस्कृतवार्ता: – स्वास्थ्य-परिवार-कल्याण-मन्त्री जे. पी. नड्डा नवदेहल्यां भारत-ए.आइ. प्रभाव-शिखर-सम्मेलनस्य अवसरे ब्राजील-देशस्य स्वास्थ्य-मन्त्रिणा अलेक्सान्द्रे पदिल्हा इत्यनेन सह मन्त्रणोपवेशनं कृतवान्। सामाजिक-माध्यमेषु प्रकाशिते सन्देशे स्वास्थ्य-मन्त्रालयेन उक्तं यत् उभयोः पक्षयोः सुलभ-स्वास्थ्य-सेवायाः उन्नयन-विषयेऽपि चर्चा जाता। अस्मिन् अवसरे औषध-उत्पाद-नियमनेषु तथा डिजिटल स्वास्थ्य-क्षेत्रे सहकार-विषयेषु अपि विमर्शः जातः। अस्मिन् अवसरे नड्डा-महोदयेन ब्राजील-स्वास्थ्य-मन्त्रिणे ब्रिक्स-स्वास्थ्य-मन्त्रि-सम्मेलनार्थम् आमन्त्रणं प्रदत्तम्। एतदतिरिक्तं फ्रान्स-देशस्य राष्ट्रपतिः इम्मैनुअल मैक्रों तथा केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्री जगत प्रकाश नड्डाः च नवदेहल्याम् अखिल-भारतीय-आयुर्विज्ञान-संस्थाने वैश्विक स्वास्थ्ये ए. आई. विषये इण्डो-फ्रेञ्च्-परिसरस्य उद्घाटनम् अकुर्वताम्। अयं उपक्रमः वैश्विक स्वास्थ्याय आर्टिफिसियल्-इन्टेलिजेन्स् इत्यस्मिन् क्षेत्रे भारत-फ्रान्स्-देशयोः सहयोगस्य निर्माणे महत्त्वपूर्ण पदाक्षेपं प्रर्दशयति। वैश्विक स्वास्थ्ये ए. आई. विषये इण्डो-फ्रेञ्च्-परिसरस्य उद्देश्यं, ए. आई.-नियन्त्रित-स्वास्थ्य-सेवा-उपायेषु अनुसंधानं, नवान्वेषणं, क्षमता-निर्माणम्, शैक्षणिक- उत्कृष्टतां, अन्ताराष्ट्रिय सहभागितां च प्रवर्धनम् अस्ति।

You Might Also Like

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article नवदेहल्याम् इण्डिया-ए.आई. इम्पैक्ट-शिखरसम्मेलनावधौ प्रधानमन्त्रिणा नरेन्द्रमोदिना अनेकैः विश्वनेतृभिः सह द्वैपाक्षिकोपवेशनं विहितम्।
Next Article भारत-स्विट्जरलैण्ड्-मैत्री: सुदृढीकरणस्य अभिनवः सोपानः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?