पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्
पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे ‘संस्कृतमाध्यमेन संस्कृतशिक्षणम्’ इति विषये आयोजिता द्विदिवसीयप्रशिक्षणकार्यशाला गतदिने सोत्साहं सम्पन्ना। इयं कार्यशाला संस्कृतभारती (पञ्जाबप्रान्तः) तथा भारतीयभाषासमितिः इत्यनयोः संयुक्ततत्त्वावधाने आयोजिता आसीत्। समापनसत्रस्य शुभारम्भः मङ्गलाचरणेन अतिथिस्वागतेन च अभवत्। कार्यक्रमस्य मुख्यातिथिः पञ्जाबविश्वविद्यालयस्य कुलसचिवः वाई. पी. वर्मा महोदयः आसीत्। विशिष्टातिथिरूपेण संस्कृतभारत्याः उत्तरक्षेत्रसङ्गठनमन्त्री नरेन्द्रमहोदयः उपस्थितः आसीत्। मुख्यवक्तृरूपेण कुलदीपचन्द-अग्निहोत्री महोदयः स्वकीयं विचारं प्रकटितवान्। प्रो. कुलदीप अग्निहोत्री महोदयः स्वबोधने उक्तवान् यत् संस्कृतं केवलम् अतीतस्य भाषा नास्ति, अपितु भारतस्य भविष्यस्य बौद्धिक-आधारशिला अस्ति। सः संस्कृतं व्यावहारिकजीवने स्थापयितुं तथा पारम्परिक-आधुनिकशिक्षणपद्धतीनां समन्वयाय बलं दत्तवान्। विशिष्टातिथिः नरेन्द्रमहोदयः संस्कृतस्य व्यापकप्रचार-प्रसारस्य आवश्यकतां प्रतिपाद्य शिक्षकान् प्रार्थितवान् यत् ते संस्कृतसम्भाषणं समाजस्य प्रत्येकं स्तरं यावत् प्रापयेयुः। मुख्यातिथिः वाई. पी. वर्मा महोदयः विश्वविद्यालयस्तरे भारतीयभाषाणां संरक्षणाय संवर्धनाय च स्वप्रतिबद्धतां प्रकटयन् संस्कृतविभागस्य प्रयासानां भूरि प्रशंसां कृतवान्। अस्मिन् अवसरे प्रतिभागिभ्यः प्रमाणपत्राणि वितरितानि। पञ्जाब-हरियाणा-चण्डीगढ़तः आगतानां शतं (१००) तः अधिकानां संस्कृतशिक्षकानां सक्रियसहभागितया इयं कार्यशाला अत्यन्तं सफला प्रभाविनी च जाता। कार्यक्रमे संस्कृतविभागस्य प्राध्यापकाः, दयानन्दपीठस्य शोधच्छात्राः च उपस्थिताः आसन्, यैः आयोजनस्य साफल्ये महत्त्वपूर्णा भूमिका निगूढा। विभागाध्यक्षा डॉ. सुनीता देवी सर्वेषाम् अतिथीनां, प्रतिभागिनां सहयोगी-संस्थानां च प्रति कृतज्ञतां ज्ञापयन्ती उक्तवती यत् एतादृशानि आयोजनानि संस्कृतशिक्षणाय नूतनदिशं प्रयच्छन्ति, भविष्येऽपि एतादृशाः शैक्षणिकप्रयासाः निरन्तरं प्रचलिष्यन्ति।कार्यक्रमस्य समापनं डॉ. तोमीरमहोदयस्य धन्यवादज्ञापनेन अभवत्। इयं कार्यशाला संस्कृतशिक्षणस्य सुदृढ़पद्धतेः, संस्कृतसम्भाषणप्रसारस्य तथा भाविकार्ययोजनानिर्धारणस्य दिशि एकं महत्त्वपूर्णं पदं सिद्धम् अभवत्।
पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
