केन्द्रीय गृहमन्त्री अमित शाहः महान् स्वतन्त्रता सेनानी वासुदेव बलवन्त फड़के महोदयस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्।
सोशल मीडिया (सामाजिक-माध्यम) इत्यत्र एकेन सन्देशेन श्री शाहः अवदत् यत् वासुदेव फड़के महोदयः ब्रिटिश-शासनस्य विरुद्धं सशस्त्र-क्रान्तेः आधारशिलां स्थापितवान्, युवानः च मातृभूमेः स्वतन्त्रतायाः लक्ष्येण सह योजितवान्। सः अकथयत् यत् फड़के महोदयः प्रत्येकं युवकाय देशभक्तेः आदर्शरूपेण प्रेरणास्रोतः भविष्यति।
