By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विचारविमर्शः > महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा
विचारविमर्शःविविध

महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

डॉ.अमनदीप शर्मा
Last updated: 2026/02/14 at 8:09 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च
(जन्म15/11/1923-मृत्यु:06/02/2008)

भारतीयेतिहासे केचन महापुरुषाः तादृशा: सन्ति ये स्वकीयं सम्पूर्णं जीवनं राष्ट्रसेवायै, समाजोत्थानाय, शिक्षाप्रसाराय च समर्पितवन्तः। तेषु विशिष्टस्थानं धारयति महात्मा नारायणदासग्रोवरमहोदयः। एष: केवलमेकः शिक्षाविद् वा प्रशासकः नासीत्, अपि तु एकः महान् कर्मयोगी, त्यागशीलः समाजसेवकः, आर्यसमाजस्य निष्ठावान् अनुयायी, डीएवी आन्दोलनस्य अग्रदूतः च आसीत्। एतस्य व्यक्तित्वं कृतित्वं च भारतीयशिक्षाजगति, विशेषतः डीएवीपरम्परायां, स्वर्णाक्षरैः अंकितम् अस्ति। महात्मा नारायणदासग्रोवरमहोदयस्य जन्म एकस्मिन् सुसंस्कृते, धर्मनिष्ठे च परिवारे अभवत्। बाल्यकालात् एव एतस्य मनसि सत्यनिष्ठा, अनुशासनम्, सेवाभावना च दृढतया प्रतिष्ठिताः। मातापित्रोः संस्कारैः, आर्यसमाजस्य शिक्षाभिः च, एष: जीवनस्य लक्ष्यं समाजसेवा एव इति स्वीकृतवान्।
स्वामीदयानन्दसरस्वत्याः विचाराः वेदप्रामाण्यम्, सत्यं, तपः, सेवा च महात्मानारायणदासग्रोवरस्य जीवनस्य मूलाधारा: अभवन्। एष: आर्यसमाजस्य सिद्धान्तान् केवलं वचनेन न, अपि तु आचरणेन जीवन्तान् अकरोत्। वेदाध्ययनम्, यज्ञहवनपरम्परा, सामाजिकसुधारकार्याणि च एतस्य दिनचर्यायाः अङ्गानि आसन्।
महात्मा नारायणदासग्रोवरमहोदयः डीएवी (Dayanand Anglo-Vedic) आन्दोलनस्य प्रमुखेषु अग्रदूतेषु एकः आसीत्। अस्य आन्दोलनस्य मुख्यं लक्ष्यम् आसीत् यत् वैदिकसंस्कृत्या सह आधुनिकशिक्षायाः समन्वयः। एष: इमम् आदर्शं स्वजीवने साकारं कृतवान्। एतस्य नेतृत्वे उत्तरपूर्वभारतस्य, बिहारझारखण्डक्षेत्रस्य च, डीएवीविद्यालयानां व्यापकः विस्तारः अभवत्। इतिहासे प्रसिद्धं यत् तस्य प्रेरणया, मार्गदर्शनेन च, प्रायः द्विशतानि पञ्चाशत् (250) डीएवी विद्यालया: स्थापिता:। एते विद्यालयाः ग्रामीणनगरीयक्षेत्रेषु समानरूपेण शिक्षाज्योतिं प्रसारयन्ति स्म। महात्माग्रोवरस्य व्यक्तित्वस्य सर्वाधिकं प्रशंसनीयं पक्षः एतस्य अवैतनिकं निदेशककार्यकालम् आसीत्। एष: दीर्घकालं यावत् डीएवीविद्यालयव्यवस्थायां अवैतनिकरूपेण कार्यं कृतवान्। पद, प्रतिष्ठा, वेतनं वा कदापि एतस्य लक्ष्यं नासीत्। शिक्षा एव एतस्य साधना, सेवा एव एतस्य तपः आसीत्। महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वे केचन गुणाः विशेषतया द्रष्टव्याः—
1. सत्यनिष्ठा – एतस्य जीवनं पूर्णतया सत्याधारितम् आसीत्।
2. कर्तव्यपरायणता–स्वीकृतं कार्यं एष: पूर्णसमर्पणेन करोति स्म।
3. सेवाभावः – समाजहितमेव एतस्य चिन्तनस्य केन्द्रम् आसीत्।
4. सरलजीवनम् –एतस्य अत्यन्तसरलवेषः,जीवने न्यूनावश्यकताः, उच्चविचाराः च सर्वदा “सादा जीवन उच्च विचार” इत्यस्य सन्देशं ददाति स्म ।
5. अनुशासनम् – एष: स्वजीवने, कार्यक्षेत्रे, संस्थासु च सर्वदा अनुशासनस्य पालनं कृतवान् ।
एतेषां गुणानां कारणात् एव यत् जनाः एतं प्रेम्णा “झोलेवाले बाबाजी” इति सम्बोधयन्ति स्म। महात्मा ग्रोवरस्य कृतित्वस्य केन्द्रबिन्दुः शिक्षा एव आसीत्। एतस्य मतम् आसीत् यत्— “शिक्षा एव समाजपरिवर्तनस्य मूलसाधनम् अस्ति”।एतस्य प्रयासेन अनेके विद्यालयाः, महाविद्यालया: च स्थापितानि। निर्धनविद्यार्थिभ्यः शिक्षासुलभता,चरित्रनिर्माणम्, राष्ट्रभावना च डीएवीशिक्षायाः प्रमुखलक्ष्याणि अभवन्।बिहार-झारखण्डक्षेत्रयो: महात्माग्रोवरस्य योगदानं विशेषतया उल्लेखनीयम् अस्ति । एतेन सुदूरग्रामेषु, आदिवासीक्षेत्रेषु, सामाजिकदृष्ट्या अविकसितप्रदेशेषु च डीएवीविद्यालयानां स्थापना कृता। एते विद्यालयाः तत्र निवसतां बालकानां जीवनदिशां परिवर्तितवन्तः।महात्माग्रोवरः कुशलप्रशासकः अपि आसीत्। एष: संस्थानां सुचारुरूपेण संचालनं, वित्तीयशुचिता, अनुशासनं, उत्तरदायित्वं च सुनिश्चितवान् ।डीएवीकॉलेज-प्रबन्धकर्त्री-समितेः (नवदिल्ली) उपाध्यक्षत्वेन अपि एष:महत्त्वपूर्णभूमिकाया: निर्वहणं कृतवान्। शिक्षायाः अतिरिक्तं महात्माग्रोवरमहोदय: समाजसेवायां राष्ट्रसेवायां च सक्रियः आसीत्। दुर्भिक्षकाले, आपत्कालेषु, विपत्तिषु च, एष: विद्यालयानां माध्यमेन सहायताकल्पानाम् आयोजनं करोति स्म। एतस्य दृष्टौ विद्यार्थी एव भविष्यस्य नागरिकः अस्ति।
महात्मानारायणदासग्रोवरमहोदयस्य सम्पूर्णं जीवनं एकः आदर्शः ग्रन्थः इव आसीत्।एतस्य जीवनात् ज्ञायते यत् महान् भवितुं धनं, पदं, सत्ता वा आवश्यकं न, अपि तु शुद्धभावना, दृढसंकल्पः, निरन्तरसेवा च आवश्यकाः सन्ति।अतः स्पष्टं भवति यत् महात्मानारायणदासग्रोवरमहोदयः न केवलं डीएवीआन्दोलनस्य, अपि तु सम्पूर्णभारतीयशिक्षाजगतः एकम् अमूल्यं रत्नम् आसीत्। एतस्य व्यक्तित्वं कृतित्वं च अनन्तकालं यावत् शिक्षासेवानिष्ठानां कृते प्रेरणाप्रदं भविष्यति। वयं एतादृशस्य महापुरुषस्य चरणयोः प्रणामांजलिं समर्पयामः, य: स्वीयजीवनं राष्ट्राय, समाजाय, शिक्षायै च समर्पितवान्।

डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी,भागलपुर बिहार

You Might Also Like

अद्यतनं कलहान्वितं विश्वम् -नारदोपाध्यायः

‘Valentine’s Day’ प्रेमदिवसः- डॉ. वर्षा प्रकाश टोणगांवकर

भारतीयस्वतंत्रतान्दोलने नेताजीसुभाषचन्द्रबोसस्य योगदानम्

गणतन्त्रभारतसमीक्षा -डॉ विमलेश झा,

शून्यात् शतकम्-राष्ट्रीयस्वयंसेवकसंघः (RSS)

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?