गणतन्त्रदिवसे ३९७ बन्दिनां दण्डमुक्तेः हिमाचलसर्वकारस्य घोषणा; जघन्य-अपराधिनः एतस्माद् अनुग्रहात् बहिः
हिमसंस्कृतवार्ता: – शिमला।
गणतन्त्रदिवसस्य पावनपर्वणि हिमाचलप्रदेशसर्वकारेण राज्यस्य विविधेषु कारागृहेषु निरुद्धानां ३९७ दण्डितानां बन्दिनां दण्डकाले (सजा) अनुग्रहं (छूट) दातुं निर्णयः कृतः। सर्वकारानुसारं एष: अनुग्रह: उत्तम-आचरणयुक्तेभ्यः बन्दिभ्यः दीयते। राज्यस्य कारागृहेषु निरुद्धानां कुलं १०८३ दण्डित-बन्दिनां मध्ये ३९७ बन्दिनः अस्य लाभं प्राप्स्यन्ति।
सर्वकारपक्षतः स्पष्टीकृतं यत् आजीवनकारावाससहितं ये १० वर्षेभ्यः अधिकं दण्डं भुञ्जानाः सन्ति, तेभ्यः ४५ दिनानां अनुग्रह: दीयते। तथैव ५ वर्षेभ्यः अधिकं १० वर्षाणां यावत् दण्डपात्र-बन्दिभ्यः ३० दिनानां मुक्तिः मिलिष्यति।
१५ तः २१ दिनानां अनुग्रह:
३ तः ५ वर्षाणां दण्डः २१ दिनानां अनुग्रह:।
१ तः ३ वर्षाणां दण्डः १५ दिनानां अनुग्रह:।
६ मासात् १ वर्षपर्यन्तं दण्डः ७ दिनानां अनुग्रह:।
सर्वेभ्य: अनुग्रह: न
हिमाचलसर्वकारेण स्पष्टीकृतं यत् एष अनुग्रह: केवलं तेभ्यः एव प्रदास्यते, येषां कारागृहे आचरणं प्रशंसनीयं वर्तते। परन्तु केचन विशिष्टाः जघन्याः अपराधिनः अस्याः व्यवस्थायाः बहिः स्थापिताः सन्ति।
एते बन्दिनः अनुग्रहत: वञ्चिताः
> NDPS Act (मादकद्रव्यनिवारण-अधिनियमः)
> POCSO Act (बाललैङ्गिकअपराधनिवारण-अधिनियमः)
> भ्रष्टाचारनिवारण-अधिनियमः
> UAPA (गैरकानूनी-गतिविधि-निवारण-अधिनियमः)
> आतङ्कवादः, अपहरणम्, अभ्यस्त-अपराधिनः (Habitual Offenders)
> परोल्-तः पलायिताः बन्दिनः
अयं निर्णयः भारतीयनागरिकसुरक्षासंहिता २०२३ इत्यस्य धारा ४७३, दण्डप्रक्रियासंहितायाः (CrPC) धारा ४३२ तथा हिमाचलप्रदेश-जेल-मैनुअल-२०२१ इत्यस्य अन्तर्गतं प्रदत्तानां अधिकाराणां प्रयोगं कृत्वा स्वीकृतः अस्ति।
