मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
हिमसंस्कृतवार्ता:- कुलदीप मैन्दोला, उत्तराखण्डम्।आदर्श– संस्कृतग्रामे कोटग्रामे मादक– पदार्थ– निवारणविषयकं सशक्तं जनजागरण–अभियानम् आयोजितम्। अस्य अभियानस्य उद्देश्यः ग्रामवासिनः मादकपदार्थसेवनात् उत्पद्यमानानां सामाजिक– पारिवारिक– स्वास्थ्यगत– दुष्परिणामानां विषये जागरूकान् कर्तुं ग्रामं च सर्वथा मादकपदार्थमुक्तं निर्मातुम् आसीत्।अस्मिन् अवसरे सर्वसम्मत्या निर्णयः कृतः यत् ग्रामे यदि कश्चित् मादक–पदार्थस्य उपयोगे, विक्रये अथवा सञ्चये संलिप्तः गृहीतः भविष्यति, तर्हि तस्मै ₹२५,००० (पञ्चविंशतिसहस्ररूप्यकाणि) अर्थदण्डः आरोपयिष्यते तथा विधिक–कार्यान्वयनं अपि अनिवार्यतया क्रियते। वक्तृभिः स्पष्टं प्रतिपादितं यत् आदर्श–संस्कृतग्रामः सन् कोटग्रामे एतादृशानां दुष्क्रियाणां किञ्चिदपि स्थानं नास्ति।
अभियानस्य अन्तर्गतं मोरी–जखोल–मुख्यमार्गे जनजागरण–पदयात्रा अपि निष्कासिता, यस्यां ग्रामपञ्चायतस्य सर्वाः महिलाः उत्साहपूर्वकं सहभागिभूताः। पदयात्रामाध्यमेन मादक– पदार्थ– निवारणस्य सन्देशः जनसामान्येषु प्रभावीरीत्या प्रसरितः। अस्य कार्यक्रमस्य नेतृत्वं ग्रामप्रधानवर्यया संगीता रावत महोदयया, आदर्श– संस्कृत– ग्रामस्य प्रशिक्षकेन आचार्य माधव पौडेल महोदयेन च कृतम्। अस्मिन् अवसरें समाजसेवकः लायवरसिंह रावत:, हृदयसिंह रावत:, रोहिताश उनियाल:, किशोर उनियाल: इत्यादयः ग्रामस्य अन्ये च गणमान्यनागरिकाः उपस्थिताः आसन्। अभियानस्य समापनं ग्रामं कोटग्रामं स्थायिरूपेण मादक–पदार्थमुक्तं कर्तुं सामूहिकसंकल्पेन कृतम्।
मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
