By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तराखण्डवार्ताः > मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
उत्तराखण्डवार्ताः

मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना

डॉ.अमनदीप शर्मा
Last updated: 2026/01/20 at 6:48 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
हिमसंस्कृतवार्ता:- कुलदीप मैन्दोला, उत्तराखण्डम्।आदर्श– संस्कृतग्रामे कोटग्रामे मादक– पदार्थ– निवारणविषयकं सशक्तं जनजागरण–अभियानम् आयोजितम्। अस्य अभियानस्य उद्देश्यः ग्रामवासिनः मादकपदार्थसेवनात् उत्पद्यमानानां सामाजिक– पारिवारिक– स्वास्थ्यगत– दुष्परिणामानां विषये जागरूकान् कर्तुं ग्रामं च सर्वथा मादकपदार्थमुक्तं निर्मातुम् आसीत्।अस्मिन् अवसरे सर्वसम्मत्या निर्णयः कृतः यत् ग्रामे यदि कश्चित् मादक–पदार्थस्य उपयोगे, विक्रये अथवा सञ्चये संलिप्तः गृहीतः भविष्यति, तर्हि तस्मै ₹२५,००० (पञ्चविंशतिसहस्ररूप्यकाणि) अर्थदण्डः आरोपयिष्यते तथा विधिक–कार्यान्वयनं अपि अनिवार्यतया क्रियते। वक्तृभिः स्पष्टं प्रतिपादितं यत् आदर्श–संस्कृतग्रामः सन् कोटग्रामे एतादृशानां दुष्क्रियाणां किञ्चिदपि स्थानं नास्ति।
अभियानस्य अन्तर्गतं मोरी–जखोल–मुख्यमार्गे जनजागरण–पदयात्रा अपि निष्कासिता, यस्यां ग्रामपञ्चायतस्य सर्वाः महिलाः उत्साहपूर्वकं सहभागिभूताः। पदयात्रामाध्यमेन मादक– पदार्थ– निवारणस्य सन्देशः जनसामान्येषु प्रभावीरीत्या प्रसरितः। अस्य कार्यक्रमस्य नेतृत्वं ग्रामप्रधानवर्यया संगीता रावत महोदयया, आदर्श– संस्कृत– ग्रामस्य प्रशिक्षकेन आचार्य माधव पौडेल महोदयेन च कृतम्। अस्मिन् अवसरें समाजसेवकः लायवरसिंह रावत:, हृदयसिंह रावत:, रोहिताश उनियाल:, किशोर उनियाल: इत्यादयः ग्रामस्य अन्ये च गणमान्यनागरिकाः उपस्थिताः आसन्। अभियानस्य समापनं ग्रामं कोटग्रामं स्थायिरूपेण मादक–पदार्थमुक्तं कर्तुं सामूहिकसंकल्पेन कृतम्।

You Might Also Like

उत्तराखण्डसंस्कृत-अकादम्याः प्रदर्शनी राज्यस्तरे द्वितीयं स्थानं प्राप्तवती

हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्

हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालयस्य बी. जी.आर. परिसरे आवधिक-व्याख्यानस्य आयोजनम्

उत्तराखण्डे मेघ-विस्फोट-प्रभाविते उत्तरकाशी धरालीति क्षेत्रे रक्षोद्धार-कार्यं युद्धस्तरे

देहरादूननगर्यां शहीदस्मारके श्रद्धाञ्जलिसभायाः आयोजनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article “महाकविकालिदास-संस्कृतव्रती राष्ट्रियपुरस्कारस्य” घोषणा कृता
Next Article पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?