हिमाचलस्य राज्यपालेन सह अमिलित् राज्यनिर्वाचनायुक्त: अनिल खाची
> पंचायतनिर्वाचनस्य सज्जतायाः विषये अद्यतनं प्रदत्तवान्।
> जनवरी ३१ दिनाङ्कात् पूर्वं भविष्यति निर्वाचनम्।
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशराज्यनिर्वाचन-आयोगस्य आयुक्तः अनिलखाची शुक्रवासरे प्रातःकाले राजभवने राज्यपालेन शिवप्रतापशुक्लेन सह मिलितवान्। तेन राज्ये प्रचलति पंचायतराजसंस्थानां तथा नगरीयस्थानीय निकायनिर्वाचनानां विषये व्यापकं प्रतिवेदनं प्रदत्तम्। समाचारानुसारं सः सर्वैः जिला-उपायुक्तैः असहयोगनीतिं स्वीकृत्य अपि तस्मै सूचितवान्।
अनेनैव राज्यस्य मुख्यसचिवेन ग्रामीणविकासपञ्चायतीराजविभागस्य सचिवेन च तेन सह कृताया: चर्चाया: विषये सूचनाः अपि अददत्। पंचायतनिर्वाचनं 31 जनवरीपर्यन्तं भवितुं निश्चितम् अस्ति।
राज्ये पंचायतानां नगरीयस्थानीयनिकायानां च आरक्षणसूचय: अद्यापि न प्रकाशिताः, तथा च जिला-उपायुक्ताः निर्वाचनसामग्रीः अद्यापि न एकत्रितवन्तः। मतदातासूची अपि न सूचिता। अनिल खाची इत्यनेन राज्यपालाय एतस्य विषये सम्पूर्णा सूचना प्रदत्ता।

