By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति
हिमाचलवार्ता

नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति

डॉ.अमनदीप शर्मा
Last updated: 2025/11/09 at 7:16 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति
हिमसंस्कृतवार्ताः। हिमाचलप्रदेशे नवयुवकेषु वृत्तिहीनता विशालासमस्या अस्ति, युवकाः इदानीं वृत्यर्थं सर्वकारस्य मुखं पश्यन्ति। तेषाम् अध्ययनमपि वृत्यर्थं सहयोगी न अस्ति, तत्रैव सर्वकारस्य वनमित्र, पशुमित्र, रोगीमित्र सदृशाः वृत्तयः अपि आधुनिके युगे न पर्याप्ताः, तत्र नवयुवकानां जीवनं शोषणमेव प्रतीयते, यतोहि प्रतिमासं पञ्च-षड्सहस्ररुप्यकाणां वृत्तिः महार्घतायाः काले न पर्याप्ता। अस्मिन् काले एवं जसवां विधानसभाक्षेत्रे समाजसेविनः सञ्जनपाराशरस्य कार्याणि श्लाघनीयाः सन्ति। सञ्जयपाराशरः व्यापारिकजलपोतानां व्यवसाये अनुभवी व्यवसायी वर्तते। तेन विगतेषु पञ्चषड्वर्षेषु सहस्राणां हिमाचलीयानां नवयुवकानां कृते व्यापारिकजलपोतव्यवसाये वृत्तिः कारिता, यत्र नवयुवकाः प्रतिमासं लक्षात्मकं धनं प्राप्नुवन्ति, स्वप्नान् पूरयन्ति च, अस्मिन् एव क्रमे इदानीं तेन जसवां विधानसभायाः विविधेषु क्षेत्रेषु नवयुवकानां कृते धावनप्रतियोगितानां माध्यमेन, क्रीडाप्रतियोगितानां माध्यमेन शैक्षणिकव्यवसायात्मिकानि कौशलानि सम्वर्धयन्ते। एतासु प्रतियोगितासु लक्षरुप्यकाणां पारितोषिकानि नवयुवकेभ्यः प्रदास्यन्ते, तत्रैव वृत्त्यार्थम् नवयुवकानां सहयोगः क्रियते। सञ्जयपाराशरस्य प्रयासैः इदानीं सहस्राणां युवकानां जीवनं सफलं जातम्, सः तेषां कृते गरीबों का मसीहा इति उच्यते। प्रतियोगितानां क्रमे २८ नवम्बरदिनाङ्के जसवां प्रागपुरविधानसभायां मैराथनधावनप्रतियोगितायाः आयोजनमपि अस्मिन्नेव क्रमे आयोज्यते, यत्र शताधिकाः नवयुवकाः भागं ग्रहीष्यन्ति। सञ्जयपाराशरस्य कार्यालीयसदस्येन रविन्द्रशर्मा कार्यक्रमस्य विषये सूचयन्नोक्तं यत् एतादृशाः बहवः कार्यक्रमाः सञ्जयपाराशरद्वारा चिन्तिताः सन्ति, येन नवयुवकानां कृते सशक्तीकरणं भविष्यति।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article राज्यस्तरीयभाषणप्रतियोगितायां बडाईविद्यालयात् अंकिता द्वितीयस्थानं प्राप्तवती
Next Article HPCM – २०३२ तमे वर्षे हिमाचलं सर्वाधिकं समृद्धं सुखदं च राज्यं भविष्यति – मुख्यमंत्री सुक्खु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?