*कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपते: प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदुर्घटनायां निधनम्*
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालयस्य माननीयः कुलपतिः प्रो.हरेराम: त्रिपाठी इत्यस्य उत्तरप्रदेशस्य मऊ-कुशीनगरं गच्छन् २०२५ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के मार्गदुर्घटनायां निधनम् अभवत् । तेन सह तस्य पत्नी श्रीमती बदामी त्रिपाठी अपि मृता। अपि च तस्य चालकः वैभव मिश्रमहोदयस्य स्थितिः गम्भीरा अस्ति, सः चिकित्सालये प्रवेशितः अस्ति। कुलपते: मृत्युः सम्पूर्णस्य कालिदाससंस्कृतविश्वविद्यालयपरिवारस्य कृते आघातः अस्ति तथा च एषा घटना परिवारस्य कृते वज्रपातः अस्ति।
प्रो हरेराम त्रिपाठी भारतीयदर्शनं, नव्यन्याय:, सांख्ययोग: तथा न्यायशास्त्र: इत्येतेषां प्रख्यातविद्वान् दार्शनिकश्चासीत्। सः कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपतिपदं ७ जून, २०२३ दिनाङ्के स्वीकृतवान् ।द्विवर्षीयकार्यकाले एतावता विश्वविद्यालयस्य विकासाय ७० कोटिरूप्यकाणां अनुदानं, तथैव शोधपरियोजनानां, विविधकार्यशालानां, संगोष्ठीनां, सम्मेलनानां च अनुदानं प्राप्तवान् । स्वस्य कार्यकाले वारंगा अन्ताराष्ट्रीय परिसरस्य डॉ. हेडगेवार शैक्षणिकभवनस्य उद्घाटनं सद्यैव 1 अगस्त 2025 दिनाङ्के मुख्यमन्त्री श्री देवेन्द्रफडणवीसः राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालक डॉ. मोहनजी भागवतः च कृतवन्तः। एतदतिरिक्तं शोधछात्रावासः, डॉ. तोतडेसभागार: अपि तस्य कार्यकाले सम्पन्नः ।
संस्कृतक्षेत्रे विविधप्रशासनिकशैक्षणिककार्येषु तस्य विस्तृतः अनुभवः आसीत् । प्रो.त्रिपाठी श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालये नवीदिल्लीनगरे भारतीयदर्शनशास्त्रस्य प्राध्यापकः आसीत् । सः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतित्वेन अपि कार्यं कृतवान् । प्रो.त्रिपाठी भारतसर्वकारेण महर्षिबादरायणराष्ट्रपतिपुरस्कारेण संस्कृतक्षेत्रे अद्वितीययोगदानेन पुरस्कृतः। एतेषु उत्तरप्रदेशसंस्कृतसंस्थानस्य शङ्करवेदान्तपुरस्कारः, पाणिनीपुरस्कारः, विशिष्ठसेवापुरस्कारः च अन्तर्भवन्ति ।
तस्य निधनस्य विषये संस्कृतस्य भारतस्य च गणमान्यजनाः शोकं प्रकटितवन्तः, तस्य दुर्भाग्यपूर्णं निधनं संस्कृतक्षेत्रस्य महती हानिः इति च उक्तवन्तः ।
महाराष्ट्रस्य महामहिम: राज्यपाल: श्री सी.पी. राधाकृष्णन:, मुख्यमंत्री श्रीदेवेन्द्रफडणवीस:, केन्द्रीयमन्त्री श्री नितिन: गडकरी, राजस्वमन्त्री चन्द्रशेखर: बवनकुले आदय: कुलपते: निधने शोकं प्रकटितवन्त:।
हिमसंस्कृतवार्ताया: प्रबंधनिदेशक: डॉ अमनदीपशर्मा तथा च हिमाचलस्य संस्कृतशिक्षकाणां पक्षतः डॉ मनोजशैल: कुलपते: हरेराम त्रिपाठी महोदयस्य निधने शोकप्रकटित: । असौ उक्तवान् यत् संस्कृतजगत: एक: सूर्य: अस्तंगत:। इयं अपूर्णीया क्षति: वर्तते। हिमसंस्कृतवार्ताया: पक्षतः विनम्रा भावपूर्णा च श्रद्धांजलि:।