Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
हिमसंस्कृतवार्ता:, वार्ताहर: – डॉ. नरेन्द्र राणा
संस्कृतसप्ताहोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। प्रतियोगितायामस्यां हिमाचल प्रदेशात् कपिल देव प्रेमी प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थानं स्वाती मकरंद कुलकर्णी महाराष्ट्रत:, तृतीय-स्थाने च बिहारत: सोनू कुमार: वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: राजस्थानात् मनोज सैनी, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। पुरस्कार-प्रायोजक: मनोज सैनी महोदय: सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृत रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।