कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतप्राच्यविद्यासंस्थाने दशदिवसीय: पाण्डुलिपिप्रशिक्षणकार्यक्रम: दिनांक 28 जुलाईत: 06 अगस्त 2025 पर्यन्तम् आयोज्यिष्यते। एष कार्यक्रम: केंद्रीय- संस्कृत- विश्वविद्यालयस्य अष्टादशीपरियोजनायामन्तर्भवति। अत्र पाण्डुलिपीनां प्रकारा:, परिचय:, संरक्षणम्, लिपिप्रशिक्षणं तथा पाण्डुलिपि संपादनाभ्यास: कारयिष्यते। अस्मिन् कार्यक्रमे विभिन्नविश्वविद्यालयभ्ये शिक्षका: शोधच्छात्राश्च भागग्रहणं करिष्यन्ति। अस्य उद्घाटनसत्रस्य आयोजनं 28 जुलाई दिनांके 10 वादने भविष्यति। अत्र मुख्यातिथि: कुरुक्षेत्र विश्वविद्यालयस्य कुलसचिव: डॉ. वीरेन्द्र पाल महोदय: तथा मुख्यवक्ता लिपिशास्त्रविशेषज्ञ: डॉ. कीर्तिकान्तशर्मा भविष्यति।
कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतप्राच्यविद्यासंस्थाने 28 जुलाईत: 06 अगस्त 2025 पर्यन्तम् दशदिवसीय: पाण्डुलिपिप्रशिक्षणकार्यक्रमः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
