रणबीरस्य ‘रामायण’ चलच्चित्रे अधुना असमिया अभिनेत्री सुरभि दासः ‘उर्मिला’ इत्यमिन् भूमिकायां दर्शनं दास्यति
वार्ताहर: – जगदीश डाभी
मुम्बई । रणबीरकपूरस्य रामायण इति चलच्चित्रं बहुकालात् वार्तायां वर्तते। भारतस्य महत्तमं चलच्चित्रम् अस्ति । अस्य चलच्चित्रस्य आय-व्ययक: ४००० कोटिरूप्यकाणि इति कथ्यते । नितेश तिवारी इत्यनेन निर्देशितस्य अस्य चलच्चित्रस्य चित्रोतलनं गतवर्षे आरब्धम् । गतवर्षे रणबीरः साई पल्लवी च चलच्चित्रस्य चित्रोतलनं कृतवन्तौ । यशः अस्मिन् वर्षे चित्रोतलन-कार्ये सम्मिलितवान् । सनी देओल: अद्यापि चित्रोतलनं न आरब्धवान्। सः अपि अतीव शीघ्रमेव चित्रोतलन-कार्यं कर्तुं शक्नोति। बॉर्डर २ इत्यस्य चित्रोतलनं समाप्तं कृत्वा सनी देओल: स्वपुत्रेण सह अवकाशं गतः अस्ति । सन्नी पाजी सम्भवतः अवकाशस्य अनन्तरं रामायणस्य चित्रोतलनम् आरभेत। इदानीं चलच्चित्रात् महती वार्ता आगता अस्ति यत् साई पल्लवी रामायणे मुख्यनायिकायाः भूमिकायां दृश्यते। साई पल्लवी चलच्चित्रे सीतायाः भूमिकायां दृश्यते। अधुना साई पल्लवी इत्यस्याः अनुजभगिन्याः भूमिकायाः कृते असमिया-अभिनेत्री नियुक्ता इति वार्ता आगच्छति। असमिया अभिनेत्री सुरभि दासः रामायणं प्रविष्टवती अस्ति। अस्मिन् महत् आय व्ययकेन निर्मिते चलच्चित्रे सुरभि साईपल्लवी इत्यस्याः भगिन्याः अर्थात् सीतायाः अनुजा-भगिन्याः उर्मिला इत्यस्याः भूमिकायां दृश्यते। उर्मिला माता सीतायाः अनुजा आसीत् । उर्मिला भगवन् रामस्य भ्रातुः लक्ष्मणस्य पत्नी अपि आसीत् । उर्मिला लक्ष्मणप्रति त्यागेन, समर्पणेन च प्रसिद्धा अस्ति। प्राप्तवार्तानुसारं उर्मिलाया: बलिदानमपि चलच्चित्रे प्रदर्शितं भविष्यति।