गृहहिंसासम्बद्धेषु प्रकरणेषु पुलिसदलेन आरोपिणः मासद्वयं यावत् न गृहीतव्या-सर्वोच्चन्यायालयः
हिमसंस्कृतवार्ताः। सर्वोच्चन्यायालयेन गृहहिंसासम्बद्धेषु प्रकरणेषु महत् निर्णयं दत्तम् अस्ति तथा च इलाहाबाद उच्चन्यायालयस्य द्विवर्षीयं मार्गदर्शिकां स्वीकृत्य भारतीयदण्डसंहितायां धारा ४९८ ए अन्तर्गतं पञ्जीकृतेषु प्रकरणेषु पुलिसदलेन आरोपिणः मासद्वयं यावत् न गृहीतव्या इति उक्तम्। न्यायालयेन उक्तं यत् यदा कश्चन महिला ४९८ए इत्यस्य अन्तर्गतं स्वश्वशुरस्य विरुद्धं घरेलुहिंसायाः दहेज-उत्पीडनस्य वा प्रकरणं दापयति तदा पुलिसबलेन मासद्वयं यावत् तस्याः पतिं तस्य बन्धुजनं वा न गृहीतव्यम्। न्यायालयेन मासद्वयस्य अवधिः शान्तिकालः इति उक्तम्। सर्वोच्चन्यायालयेन एषः आदेशः एकस्याः महिलायाः आईपीएस-अधिकारिणः सम्बद्धस्य प्रकरणस्य श्रवणकाले दत्तः । न्यायालयेन महिलाधिकारिण्याः विरक्तपत्युः तस्य ज्ञातिजनस्य च उत्पीडनस्य विषये वृत्तपत्रेषु क्षमायाचनं प्रकाशयित्वा क्षमायाचनां कर्तुं आदेशः अपि दत्तः अस्ति। इलाहाबाद उच्चन्यायालयस्य २०२२ तमे वर्षे निर्मितस्य मार्गदर्शिकायाः अनुसारं मासद्वयस्य शान्तिकालस्य कारणात् पुलिस-अधिकारिणः गृहीतुं-सहितं किमपि कार्यं कर्तुं न शक्नुवन्ति ।
हरिद्वारे सौहार्दं पूर्वकं कांवरमेलापकः समाप्तः
हरिद्वार। श्रावणमासे हरिद्वारतीर्थनगरे हरकीपौरीतः गंगाजलं वहन् शिवमन्दिरेषु जलाभिषेकं कर्तुं प्रसिद्धः काँवरमेला बुधवासरे शिवरात्रिचतुर्दशी अवसरे समाप्तः। अस्मिन् समये ४.५० कोटिः काँवरतीर्थयात्रिकाः हरिद्वारं प्राप्तवन्तः इति जिल्लाप्रशासनेन पुष्टिः कृता। मेला समाप्तेः अनन्तरं जिलाधिकारिणा मयूरदीक्षितेन विशालस्वच्छताभियानं कर्तुं निर्देशाः दत्ताः सन्ति।
सर्वोच्चन्यायालयः- गृहहिंसासम्बद्धेषु प्रकरणेषु पुलिसदलेन आरोपिणः मासद्वयं यावत् न गृहीतव्या
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
