अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्
हिमसंस्कृतवार्ताः। हिमाचलप्रदेशस्य राजकीयविद्यालयेषु कार्यरतानां संस्कृतशिक्षकाणां संगठनं राजकीयसंस्कृतशिक्षकपरिषद् एकं संगठनमस्ति यस्य त्रैवार्षिकनिर्वाचनप्रक्रिया समस्तेषु जनपदेषु खण्डेषु च समाप्ता अस्ति। अधुना जुलाई मासस्य 6 दिनांके सोलनजनपदः राजकीयवरिष्ठमाध्यमिकविद्यालये वथालंग इत्यत्र मध्याह्न 11 वादनतः राज्यस्तरीयं निर्वाचनं भविष्यति, अस्याः निर्वाचनप्रक्रियायाः सर्वाः सज्जताः पूर्णाः सन्ति। संगठनस्य पूर्वाध्यक्षेण डॉ.मनोजशैलेन संसूचयन् उक्तं यत् निर्वाचनात् पूर्वं राज्यस्तरीयं सम्मानसमारोहः भविष्यति, यत्र अर्की क्षेत्रस्य विधायकः सञ्जयः अवस्थी मुख्यातिथित्वेन उपस्थितः भविष्यति। ध्यातव्यमस्ति अस्मिन् सम्मानसमारोहे कोरोनाकाले शिक्षाविभागे हरघरपाठशाला इत्यस्मिन् कार्यक्रमे अन्तर्जालमाध्यमेन पाठयन्तः राज्यस्य विभिन्नेभ्यः जनपदेभ्यः समागताः संस्कृतशिक्षकाः सम्मानिताः भविष्यन्ति।
मध्याह्ने भविष्यति निर्वाचनप्रक्रिया
डॉ.मनोजशैलेन प्रतिपादितं यत् मध्याह्ने प्रतिकूलवातावरणे अपि जनपदेभ्यः संस्कृतपरिषदः प्रतिभागिनः भागं ग्रहीतुं कृतसङ्कल्पाः सन्ति, ये मार्गेषु यात्रायां कुर्वन्तः सन्ति, तेषु वहबः शिक्षकाः निर्धारिते स्थाने पूर्वदिने एव सम्प्राप्ताः सन्ति। कार्यक्रमस्य संयोजकः डॉ.कमलकान्तेन उक्तम् अस्माभिः सर्वेषां संस्कृतशिक्षकाणां कृते व्यवस्था परिकल्पिता अस्ति।
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment